पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
गोपालसहस्रनामस्तोत्रम्


रिति राधा, तदाराधनं विना कृष्णप्राप्तेर्दुर्लभत्वात् । राध्यते वशीक्रियते श्रीकृष्णेनेति वा राधा । तस्यै तस्याम् । सप्तम्यर्थे चतुर्थी । प्रीतिमासमन्तात् वहन् । तस्यामतिप्रीतिमानित्यर्थः इति वा । अंशांशेभ्यः --- अंशतः अंशतश्च, समुन्मील्य --- विकासं प्राप्य, पूर्णरूपकलायुत:--- परिपूर्णाभिः कलाभिः युक्तः, श्रीकृष्णचन्द्रः - चन्द्रसदृशः श्रीकृष्णः श्यामसुन्दरमूर्तिः; अनेन इतरावतारापेक्षया कृष्णावतारस्य परिपूर्णत्वं सूच्यते । भगवान्- षाङ्गुण्यपूर्णः ।


 'ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।
 भगक्च्छन्दवाच्यानि विना हेयैर्गुणादिभिः ॥

(वि. पु. 6-5.79)

इति विष्णुपुराणवचनमत्रानुसन्धेयम् । नन्दगोपवरोद्यतः -- नन्दाख्यो यो गोपवरो गोपालश्रेष्ठः तस्मिन् उद्यतः आसक्तः । अथ वा नन्दाख्यस्य गोपस्य वरप्रदाने उत्सुकः । नन्दगोपस्य वराय ब्रह्मदत्तं वरं सफलयितुमुद्यतः प्रवृत्त इति वा। धरणीरूपिण्या:- भूदेवीरूपिण्याः, मातुः - यशोदायाः, आनन्ददायकः - स्वकीयैबाल्यचेष्टितैः आनन्दप्रदाता ॥ १२-१३ ॥


 द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः।
 ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥ १४ ॥


 जातोऽक्न्यां मुकुन्दोऽपि मुरलोवेदरेचिका ।
 तया सार्धं वचः कृत्वा ततो जातो महीतले ॥ १५ ॥


14 cd.ङ. ब्रह्मणा प्रार्थितो देवः.
14 d. क. सुरेश्वर:.
15 a. क. जातोऽवन्यां च मृदितो.
15 b. क. मुरलीवादनेच्छया.
  ग. मुरलीवादरेचक:.
  ङ् मुरलीवादरेचिकाः
15 c. क. श्रिया सार्घं.
15 c. ग. त्वया सार्धं.