पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
centerगोपालसहस्रनामस्तोत्रम्
९३
 



 तत आरम्भकर्तास्य सर्वं प्राप्नोति मानवः ।
 शतावृत्त सहस्रं च यः पठेत्वैष्णवो जनः ॥ २३ ॥

 ततः अनन्तरम् अस्य स्तोत्रस्य प्रारम्भकर्ता मानवः अभिलषितं सर्वं फलमवाप्नोति । शतवारं सहस्रवारं वा विष्णुभक्तः यः पतत् स्तोत्रं पठेत् स:- ॥ २३ ॥


 श्रीवृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् ।
 यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ २४ ॥

 श्रीवृन्दावनाह्लादकस्य श्रीकृष्णस्य प्रसादात् अनुग्रहात् अभीष्टं सर्वं प्राप्नुयात् । एवं यस्य गृहे गोपालसहस्रनामस्तोत्रपुस्तकं पूजितं सत् तिष्ठति तस्य गृहे--- ॥ २४ ॥


 न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् ।
 सर्पाद्या भूतयक्षाद्या नश्यन्ते नात्र संशयः ॥ २५ ॥


 मारी मारकः, दुर्भिक्षम् भिक्षाणामभावः न भवति !  उपसर्गभयं च रोगादिभयं क्वचिदपि न भवति ।

 सर्वभूतयक्षाद्याः नश्यन्ति । नात्र कोऽपि संशयः ॥ २५॥


 श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा।
 गृहे यत्र सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ २६ ॥

 यत्र गृहे नाम्नां सहस्रं गोपालनामसहस्रकं पूजितं तिष्ठति, तत्र गृहे श्रीसहितो गोपालो वसेत् ॥ २६ ॥ - .


  23 क. तत: प्रारम्भकर्तासौ
  ख.घ. तत आरम्भकर्तासो
 23 c क शतावर्तसहस्रं च
 25 c क.ख.घ. सर्पादिभूतयक्षाद्या:
 25 d . ख.घ नश्यन्ति नात्र
 26 b क तस्य गृहं तदा
 26 c क. यदगृहे सहस्रं च