पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
गोपालसहस्रनामस्तोत्रम्


पापिने दुष्कृतिने विशेषतः लम्पटाय दुराशायुक्ताय चेदं न प्रकाशनीयं न दातव्यम् ॥ १७-१८॥


 न दातव्यं न दातव्यं न दातव्यं कदाचन ।
 देयं शिष्याय शान्ताय विष्णुभत्तिरताय च ॥ १९ ॥

 त्रिरुक्त्या शठादिभ्यो दानमत्यन्तनिषिद्धमिति प्रतीयते । शान्तिमते विष्णुभक्ताय चोपदेष्टव्यम् । 'तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचिताय् शमान्विताय ' 'इदं ते नातपस्काय नाभक्ताय कदाचन' इत्यादिकमत्र भाव्यम् ॥ १९॥


 गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
 अश्वमेधसहस्रस्य फलं पाठे भवेद्ध्रुवम् ॥ २० ॥

 गोदानादेर्यत् फलं तदस्य स्तोत्रस्य पाठेन लभ्येतेत्यर्थः ॥ २० ॥


 मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् ।
 यद्यद्वाञ्छति चित्तेन तत्तत् प्राप्नोति वैष्णवः ॥ २१ ॥

 शुभमोहनादिरूपं फलमपि यदि वाच्छति तदावश्यमेतत्स्तोत्रपाठेन तत् फलमाप्नुयादित्यर्थः ।। २१ ॥


 एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः ।
 आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ २२ ॥

 सुगन्धयुक्तद्रव्यतैलकैः स्नात्वा स्वर्णभूषणदक्षिणाभिः सह ब्राह्मणाय आहारं दत्वा ॥ २२ ॥



 19 c क. दयं शान्ताय शिष्याय
 20 a b क. गोदानबह्मयज्ञश्च वाजपेयशतं तथा ।