पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१
गोपालसहस्रनामस्तोत्रम्


 गोपालसहस्रनाम्नामन्यैरुचर्यमाणानां श्रवणात् तथा स्वयं पठनत् अविस्मरणेन कण्ठस्थीकरणाच्च वैष्णवः अभीष्टं सर्वं पाप्नोति नात्रं संशयः ॥१४॥


 वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा ।
 कदम्बपादपतले गोपालमूर्तिसंनिधौ ॥ १५ ॥

 वंशादिवृक्षसमीपे गोपालमूर्तिसमीपे च । उत्तरत्रान्वयः ॥ १५ ॥


 यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् ।।
 कृष्णेनोक्तं राधिकायै मयि प्रोक्तं तथा शिवे ॥ १६ ॥

 यो वैष्णवः विष्णुभक्तः पूर्वोक्तरीत्या इदं स्तोत्रं पठेत् स हरिमन्दिरं विष्णुस्थानं गच्छति । अयं विषयः राधायै कृष्णेनोक्तः । तथा शिवे मयि च प्रोक्तम् ॥१६॥


 नारदाय पुरा प्रोक्तं नारदेन प्रकाशितम् ।
 मया तुभ्यं वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ १७ ॥


 गोपनीयं प्रयत्नेन न प्रकाश्यं कथंचन ।
 शठाय पापिने चैव लम्पटाय विशेषतः ॥ १८ ॥

 नारदेन प्रोक्तं प्रकाशितं चैतत् स्तोत्रं तुभ्यं मया प्रोक्तम् । महता प्रयत्नेनेदं गूहनीयम्, केनापि प्रकारेण न प्रकाशनीयम् । शठाय गूढविप्रियकृते


  15 a क. बंशीवटे चार्यवटे
  16 d क. मया प्रोक्त पुरा शिवं
   ख. मयि प्रोक्तं पूरा शिवे
   घ. मया प्रोक्तं पुरा शिवम्
  17 . a क.ख घ.नारदाय मया प्रोक्तम्
  17 b क. मया तव वरारोहे
   ख.घ. मया त्वयि वरारोहे
  18 b क. न प्रकाश्यं कदाचन