पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
 



 शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् ।
 चैत्रशुक्ले च कृष्णे च कुहूसंक्रान्तिवासरे ॥ ७॥

 नामसहसकं अष्टोत्तरशतवारं हे देवि पठेत् । चैत्रशुक्ले चैत्रमासि शुक्लपक्षे कृष्णे च कृष्णपक्षे च कुहूसंक्रान्तिवासरे कुहाम् अमावास्यायां संक्रान्तिवासरे संक्रमणदिने च ॥ ७॥


 पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् ।
 तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ ८ ॥

 प्रयत्नेन पठनीयम् । क्षणात् क्षणकालेन त्रैलोक्यं भक्तिपारवश्येन मोहयेत् व्यामुग्धं कुर्वात् । तुलसीमालया तुलसीदलग्रथितमालया तुलसीमणिमालया वा युक्तः भक्तितत्परः भक्त्यासक्तः वैष्णवः ॥ ८ ॥


 रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।
 ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ ९॥

 रविवारे भानुवासरे शुक्रे च शुक्रवासरे च। द्वादश्यां तिधौ श्राद्धवासरे श्राद्धदिने । ब्राह्मणं पूजयित्वा सत्कृत्य, विधानतः शास्त्रोक्तविधिना भोजयित्वा च ॥ ९॥


 पठेन्नामसहस्रं च ततः सिद्धिः प्रजायत ।
 महानिशायां सततं वैष्णवो यः पठेत् सदा ॥ १०॥


  7 c क. चित्रे शुक्ले च कृष्णे च
   ख. चित्रे कृष्णे शुक्ले च
   घ. चित्रशुक्ले च कृष्णं च
  8 c क. तुलसीमालसंयुक्तो
  9.a क. शक्ले च
12