पृष्ठम्:गीताशास्त्रार्थविवेकः.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२अध्याय श्रीमद्भगवद्गीता (२८ (२६ श्रीमद्भगवद्गीता [२ अध्याय ऐहिक-दुयशोलाभेऽपि पात्रिकममङ्गलं तु नैव स्यादिति भावः । न चैते गुरवोऽबलिप्ताः कार्याकार्यमजानन्तश्चाधार्मिकदुर्योध- नाद्यनुगतास्त्यज्या एव, यदुक्त "गुरोरप्यवलिप्तस्य कार्याकार्य- मजानतः । उत्पथप्रतिपन्नस्व परित्यागो विधीयते ॥” इति बाच्यमित्याह,-महानुभावानिति । कालकामादयोऽपि यैर्वशी- कृतास्तेषां भीमादीनां कुतस्तदोषसम्भव इति भावः । ननु "अर्थस्य पुरुषा दासो दासत्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः॥” इति युधिष्ठिरं प्रति भीष्मे- बोक्तमतः साम्प्रतमर्थकामत्वादेनेषां महानुभावत्वं प्राक्तनं विगलितम् ? सत्यम्, तदप्येतान् हतवतो मम दुःखमेव स्या- दित्याह,-अर्थकामानर्थलुब्धानप्येतात् कुरून हत्वाऽहं भोगान भुञ्जीय किन्त्वेतेषां रूधिरेण प्रदिग्धान प्रलिप्तानब । अयमर्थः- एतेषामथेलुब्धत्वऽपि मद्गुरुन्वमस्त्येव, अत एवैतद्वधे सति गुरुद्रोहिणो मम खलु भागो दुष्कृतिमिश्रः स्यादिति ॥ ५ ॥ गीभू०-ननु स्वराज्य स्पृहा चेत्तव नास्ति तर्हि देहयात्रा वा कथं मत्स्यतीति चेत् तत्राह-गुरूनिति । गुरूनहत्वा गुरुवधमकृत्वा स्थितस्य मे भैक्षान्न अत्रियाणा निन्द्यपि भाक्त श्रेयः प्रशम्ततरम, ऐहिक दुयशोहेतृत्वेऽपि परलोकाविधातित्वात । नन्वत भीष्मादयो गुरवोऽपि युद्धगायलेपात् छद्मना युष्मद्राज्यापहारं युष्मद्- द्रोहच कुव्वतां दुर्योधनादीनां मसर्गेण कार्याकार्यविवेकाबर- हाच सप्रति त्याच्या एव-"गुरोरप्यबलिप्तम्य कार्याकार्यम- जानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥” इनि स्मृते- रिति चेत्तत्राह--महानुभावानिति। महान् सर्वोत्कृष्टोऽनुभावो वंदाध्ययनब्रह्मचर्यादिहेतुकः प्रभावो येषां तान् । कालकामाद- योऽपि यद्वश्याम्तयां तहोषसंबन्धो नेति भावः । ननु "अर्थस्य पुरुषो दासो दासत्वयों .. कस्यचित् । इति सत्यं महाराज बद्धोऽस्म्यर्थन कौरवैः ॥” इति भीष्मोक्तरर्थलोभेन विक्रीतात्मनां तेषां कुतो महानुभावना ? ततो युद्ध हन्तव्यास्ते इति चेत्त- त्राह-हत्वार्थकामानिनि । अर्थकामानपि गुरून हत्वाहमिहेव लोके भोगान भुञ्जीय, न तु परलोके । तांश्च रुधिरप्रदिग्वान् तद्र धिरमिश्रानेब, न तु शुद्धान् भुञ्जोय तद्धिसया तल्लाभात् । तथा च युद्धगर्बाबलेपादिमत्त्वेऽपि तेषां मद्गुरुत्वमस्येवेति पुनगुरुग्रहणेन सूच्यते || न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुग्वे धार्तराष्ट्राः ॥६॥ माराव्य-किञ्च गुरुद्रोहे प्रवृत्तम्यापि मम जयः पराजयो वाभ- वेदित्यपि न ज्ञायत इत्याह-न चैतदिनि । तथापि नोऽस्माकं कनरत् जयपराजयोमध्ये किं बलु गरीयो ऽधिकतरं भविष्यति एतन्न विद्मः नदेव पक्षद्वयं दर्शयति-एतान् वयं जयेम, नोऽस्मान् वा एते जयेयुः इति । किञ्च जयोऽप्यस्माकं फलतः पराजय एवेन्याह-यानेवेति ॥६|| गीभू०-ननु भैक्षभोजनं क्षत्रियस्य विगर्हितं, युद्धश्च स्व- धर्म विजानन्नपि किमिदं बिभाषसे इति चेत्तत्राह-न चैत- दिति । एतद्वयं न विद्मः-भैश्मयुद्धयोर्मध्ये नोऽस्माकं कतरद्रीयः प्रशम्ततरम-हिंसा-बिरहादशं गरीयः स्वधर्मत्वायुद्ध बेति, एनञ्च न विद्मः। समारब्धे युद्ध बयं धार्तराष्ट्रान् जयेम ते बा नोऽम्मान जयेयुरिति । ननु महाविक्रमिणां धम्मिष्ठानाच भवता- मेव बिजयो भाबीति चेत्तत्राह-यानेवेति । यान् धार्तराष्ट्रान भीष्मीदीन सर्वान् । न जिजोबिषामो जीवितुमपि नेच्छामः कि पुनर्भोगान् भोक्त मित्यर्थः । तथा च विजयोऽप्यस्माकं फलतः परा-