सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दकाव्यम् (तेलङ्ग, शास्त्री).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २] रसिकप्रिया - रसमञ्जर्याख्य टीकाद्वयोपेतम् ५३


माणमौचित्यचारुतामाचरति । यदाहुः - ' विशेषणैः समुचितैर्विशेष्यार्थः प्रकाश्यते । गुणाधिकैर्गुणोदारः सुहृद्भिरिव सज्जनः ॥' इति ॥ १२ ॥ शृङ्गारोत्तरसत्प्रमेयभणितावृद्गीतगोविन्द के प्रत्यर्थिप्रभुगर्वपर्वतसुपर्वाधीशशोभाभृता । श्रीपुम्माणन रेशवंश विशदक्ष्मामृतंसायित- श्रीमत्कुम्भधराधिपेन विवृतः सर्गे द्वितीयेऽन्वयः ॥ तथा च सङ्गीतराजे- 'गीतौ भैरवरागेण ताले वर्णयतौ यथा । आभोगान्तस्थितैः पाटैः खरैः पद्याञ्चितस्ततः ॥ अक्लेश केशवादिश्च कुञ्जरस्तिलकाभिधः ॥' इति अक्लेश केशवकुञ्जरतिलकनामा षष्ठः प्रबन्धः ॥ ६ ॥ इति श्रीराजाधिराजहम्मीरवीरवंशकरीरेण श्री कुम्भकर्ण महीमहेन्द्रेण विरचिते गीतगोविन्दविवरणे अक्लेशकेशवनामा द्वितीयः सर्गः ॥ २ ॥ काव्यं गीत्यनुसारि दुर्लभमथ स्फीतं प्रसादादिभि- र्लक्ष्मीकान्तविलासवर्णनरसस्तत्रापि लोकोत्तरः । सर्वं चैतदभूदरण्यरुदितं पद्मावतीवल्लभ- स्यैतां चेद्रसमञ्जरीं न रचयेच्छ्रीशालिनाथप्रभुः ॥ इति श्रीमहामहोपाध्याय श्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दटीकायां रसमञ्जर्याख्यायां द्वितीयः सर्गः ॥ २ ॥ १७ गीत CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri