प्रारम्भिक - प्रस्तावना. श्रीमहाकविजयदेवविरचितं मृदुलपदसरणिललितं रुचिरार्थं संहति बहुलं सरसराग- निबद्धसुप्रबन्धप्रधानं शृङ्गाररसभाण्डागारसदृशमिदं गीतगोविन्द काव्यं कैश्चिद्भूयो मुद्र- यित्वा प्रकाशितमपि सहृदयाहादिन्या साहित्य संगीतविवेकप्रचुरया टीकया समेतं केनापि प्रकाशितं नैव दृश्यते । अतस्तद्रसध्वन्यलंकाररागताला दिलक्षणानुगतिद्यो- तन टीकाद्वयेनालंकृत्य संप्रति रसिकजन विनोदाय प्रकाश्यते । अस्य गीतगोविन्दकाव्यस्य प्रणेतुर्जयदेव कवेर्देशकालादिकं जीवितवृत्तं चान्येषां बहूनां कवीनामिव सम्यङ् न ज्ञायते । तथाप्यस्माभिर्यत्किचिन्मधुकरवृत्त्या संकलितं तदत्र विद्वत्कौतुकाय संगृह्यते । गीतगोविन्दकाव्यादेव यदस्य कवेः पितृनामादिकं लभ्यते तदेवम् — जयदेवस्य पितुर्नाम श्रीभोजदेव इति । मातुर्नाम राधादेवी रामादेवीति वा । पराशराभिधः कोऽपि रसिकोऽस्य सुहृदासीत् । जयदेव कवेर्भार्याया नाम पद्मावतीति । उमापतिधरः शरणः, गोवर्धनाचार्यः, धोईकविराज इत्येते कवयो जयदेवसमकालीना आसन् । जयदेवस्य कुलवृत्तिग्रामः किन्दुबिल्वाख्य आसीदिति । जयदेवकविः परमः कृष्णभक्त आसीत् । अतो लोकेऽयं महासाधुत्वेन सर्वस्मिन्नपि भरतखण्डे विख्यातो बभूव । एतद्विषयकमस्य चरितं श्रीमच्चन्द्रदत्तकृतभक्तमालाख्यै- ग्रन्थे ३९ तमसर्गमारभ्य ४१ तमसर्गपर्यन्तं त्रिभिः सर्वैर्वर्णितमस्ति । तदत्र बाल- बोधाय यथामूलमुपन्यस्यते । तद्यथा- "पुनर प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् । यच्छ्रुत्वा जायते भक्तिर्वासुदेवे महात्मनि ॥ जगन्नाथपुरीप्रान्ते देशे चैवोत्कलाभिधे । बिन्दुबिल्व इति ख्यातो ग्रामो ब्राह्मणसंकुलः ॥ तत्रोत्कले द्विजो जातो जयदेव इति श्रुतः । विद्याभ्यासरतः शान्तः पुरुषोत्तमपूजकः ॥ १ गीतगोविन्दस्थे 'श्रीभोजदेव' इत्यादिपदे ( पृ० १७१ ) द्रष्टव्यम् । २ गीतगोविन्दस्थैकोनविंशप्रबन्धस्यान्तिमपदस्य 'जयति पद्मावतीरमणजयदेव' इत्यादि- पाठान्तरदर्शनात् ( पृ० १३३ ) भक्तमालाग्रन्थेऽपि तथैव कथनाच्च । ३ गीतगोविन्दस्थे 'वाचः पल्लवयत्युमापतिधरः' इत्यादिपद्ये ( पृ० ९) द्रष्टव्यम् । ४ गीतगोविन्दस्थसप्तम प्रबन्धस्यान्तिमपदे ( पृ० ५८ ) 'किन्दुबिल्व समुद्रसंभवरोहि- णीरमणेन' इति दर्शनात् । टीकाद्वयेऽपि किन्दुबिल्वदलस्य जयदेवकुलवृत्तिग्रामत्वेन व्याख्यातत्वाच्च । भक्तमालाग्रन्थे तु 'विन्दुबिल्व' इति पाठो दृश्यते । ५ अयं भक्तमालाग्रन्थः श्रीमद्भिः खेमराज श्रीकृष्णदासमहाशयैः स्वकीये श्रीवेङ्कटेश्वर- मुद्रालये मुद्रयित्वा प्रकाशितः । तत उद्धृतमेतदध्यायन्त्रयम् । CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
पृष्ठम्:गीतगोविन्दकाव्यम् (तेलङ्ग, शास्त्री).pdf/७
दिखावट