सर्गः १] रसिकप्रिया - रसमञ्जर्याख्यटीकाद्वयोपेतम् । नकनिमित्तता । मेघाडम्बरता देतन्महद्व्याख्यान कौशलम् ॥ अन्यहेतुभिरन्यस्योत्पत्ति- श्चेद्दृश्यते तदा । विस्मयस्थायिभावत्वादद्भुतोपस्थितिर्न किम् ॥ धात्रीयोगान्न शृङ्गारो न हास्यो रहसीङ्गितैः । न भयानकता तस्माद्रसः कोऽत्रावतिष्ठताम् । तस्मादत्र विभा वानुभावसंचारिभिर्भवेत् । शृङ्गारो नन्दसामीप्यात्तयोश्चलितयोः स्वतः ॥ यथा द्रव्याणि नानात्वं भावान्तरविभावतः । व्रजन्ति नानारसतां तथा भावास्त एव हि ॥ एवं मेघादयोऽपि स्युः शृङ्गारे च भयानके । विभावाद्यवियुक्तेन भावकेन विभावि - ताः॥’तस्मात्काव्याभिप्रायसूचितशृङ्गारपरत्वेनात्र कृतं व्याख्यानमेव न्याय्यमिति । अत्र मेघैरिति बहुवचनेनाक्रममेव नवभिरप्यवस्थाभिराक्रमणाच्चेत सोऽन्यथावृत्तिः सूचिता । अम्बरमिति स्वच्छन्द विहारभङ्गशङ्कां मा कृथा इति । वनभुव इति बहुवचनेन नानाव- स्थरतक्षमं प्रदेशबाहुल्यं द्योतितम् । नक्तमिति कालस्य खच्छन्दप्रच्छन्नकामुकयोग्य- त्वमुक्तम् । माधवशब्दः सत्यामपि लक्ष्म्यां तस्यामनुरागातिशयद्योतनार्थः । यमुनाकूल इति रतिश्रमनिराससाधन शिशिरसमीर सद्भावार्थम् । अयमिति रत्युद्रे काकुलतया स्वाङ्गे- ध्वप्यौदासीन्यद्योतनाय । यथा श्रीहर्षमिश्रस्य हंसेन स्वात्मनि निराशीभूतेन — ‘गति- स्तयोरेकतरस्तमर्दयन्' इत्याद्यभाणि । यथा वा श्रीकालिदासस्य ईश्वरेण तयावगणिते आत्मन्यनास्थापरत्वेन— 'अयं जनः प्रष्टुमनास्तपोधने' इत्याद्यवादि । अत्र वर्णवृत्त्य- नुप्रासः शब्दालंकारः । पूर्वार्धे समुच्चयोऽर्थालंकारः । तल्लक्षणं तु—‘तत्सिद्धिहेतावेक- स्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ' । यथा -- ' दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे' इत्यादि । उत्तरार्धे चाशीः । तद्योजनं च - सर्वोत्कृष्टास्ताः केलयो विलासकलासु कुतूहलिनः पान्तु । अत्र शब्दार्थालंकारयोरर्थालंकारयोश्च संसृष्टिः - 'सेष्टा संसृष्टिरे- तेषां भेदेन यदिह स्थितिः' इति । अत्रायमित्यात्मन्यौदासीन्यद्योतकं सर्वनामपदं तिल- कायमानं बिभ्राणा सूक्तिः समुचितपरभागातिशयेन रुचिरतामावहन्ती शरदिन्दुसुन्द- रवदनेव श्यामतिलकेन श्यामेव शुभविशेषकेण विभूषिता अर्थौचित्यचमत्कारकारिणी सकलकविकुलललामभूता कामपि विच्छित्तिमातनोति । यथा - ' मन्नानि द्विषतां कुलानि समरे त्वत्खद्गधाराजले नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा । मुग्धा गुर्जर भूमिपालमहिषी प्रत्याशया पाथसः कान्तारे चकिता विमुञ्चति मुहुः पत्यु- कृपाणे दृशौ ॥' अत्र मुग्धापदं कैश्चित्काव्यलिङ्गमित्यलंकारोऽभाणि । तन्न । तल्लक्षणाः भावात् ॥ लक्षणं तु-‘तदेवोक्तं काव्यलिङ्गं हेतोर्वाक्यपदार्थता' इति । नात्र 'वपुः प्रादु- र्भावात् -' इतिवद्धेतोर्वाक्यार्थता । नापि 'प्रणय सलील परिहासर साधिगतैः' इतिवदने- कपदार्थता । नापि 'भस्मोद्धूलन भद्रमस्तु भवते' इतिवद्धेतोरेकपदार्थता । तस्य गतिं त एव प्रष्टव्याः । एवमिह सुनिपुणमपि निरूप्यमाणोऽलंकृतिगुणो न विद्वच्चित्तचमत्कृ- तिमातनोति ॥ तर्हि काव्यचारुतानिबन्धन शृङ्गाररसस्वीकारेण रसवदलंकारतेत्यपि नाशङ्कनीयम् । यतोऽत्र शृङ्गारस्य प्राधान्यान्नालंकारत्वं येनालंकारता स्यात् । यदाह- ससि' इत्यमरः । ' दोषा नक्तं रात्रौ ' इति च । ...त्रस्त्रौ भीरुभीरुकभीलुका:' इत्यपि । 'निदेशः शासनं च सः' इति च । 'निकुञ्जकुऔ वा कीबे लतादिपिहितोदरे' इति च । १ नैषधे. २ कुमारसंभवे स° ५ ३ गीत० CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
पृष्ठम्:गीतगोविन्दकाव्यम् (तेलङ्ग, शास्त्री).pdf/२७
दिखावट