पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 गणितसारसङ्ग्रहः

वाष्टहतात्सेष्टकृतेः कृतिमूलं चेष्टमितरदितरहृतम् ।
ज्येष्ठं स्वरुपाञ्चनं स्वरुपधं तत्पदेन चेष्टेन ॥ १६०(१/२) ॥

क्रमशो हत्वा च तयोः सङ्कमणे भूभुजा भवतः ।
इष्टार्थमितरदः स्याद्विषमलैकोणके क्षेत्रे ॥ १६१(१/२) ॥ .

अत्रोद्देशकः ।
वे रूपे सूक्ष्मफलं विषमात्रभुजस्य रूपाण ।
त्रीणीषं दोषं कथय सरवे गणिततत्वज्ञ ॥ १६२(१/२) ॥

सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणितफलवत्समवृत्तक्षेत्रानयनसूत्रम्--

गणितं चतुरभ्यस्तं दशपदभक्तं पदे भवेद्यासः ।
सूक्ष्मं समवृत्तस्य क्षेत्रस्य च पूर्ववत्फलं परिधिः ॥ १६३(१/२) ॥

अत्रोद्देशकः ।

समवृत्तक्षेत्रस्य च सूक्ष्मफलं पच निर्दिष्टम् ।
विष्कम्भः को वास्य प्रगणय्य ममाशु तं कथय ॥ १६४(१/२) ।।

व्यावहारिकगणितफलं च सूक्ष्मफलं च ज्ञात्वा तद्यावहारिकफलव
तत्सूक्ष्मगणितफलवह्निसमचतुरश्रक्षेत्रानयनस्य त्रिसमचतुरश्रक्षेत्राननस्य
च सूत्रम् --

धनवर्गान्तरपदयुतिवियुतीष्टं भूमुरवे भुजे स्थूलम् ।
डिसमे सपदस्थूलात्पदयुतिवियुतीष्टपदहतं त्रिसमे ॥१६५(१/२)॥

अत्रोद्देशकः ।

गणितं सूक्ष्मं पञ्च त्रयोदश व्यावहारिकं गणितम् ।
द्विसमचतुरश्रमूमुवदोषः के षोडशेच्छा च ॥ १६६(१/२) ॥