पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 103

अधिकहीनोत्तरसङ्कलितधने आद्युत्तरानयनसूत्रम्--

गच्छविभक्ते गणिते रूपोनपदार्थगुणतचयहीने ।
आदिः पदहृतवित्तं चाधूनं व्येकपददलहूतः प्रचयः ॥ २९२ ।।

अत्रोद्देशकः ।

चत्वारिंशद्भणितं गच्छः पञ्च त्रयः प्रचयः ।
न ज्ञायतेऽधुनादिः प्रभवो द्विः प्रचयमाचक्ष्व ॥ २९३ ॥

श्रेढसङ्कलितगच्छानयनसूत्रम्--

आदिविहीनो लाभः प्रचयार्धहृतस्स एव रूपयुतः ।
गच्छ लाभेन गुणो गच्छस्सङ्कलितधनं च सम्भवति ॥ २९४ ॥

अत्रोद्देशकः ।

त्रीण्युत्तरमादिॐ वनिताभिश्श्रोत्पलानि भक्तानि ।
एकस्या भागोऽौ कति वनिताः कति च कुसुमानि ॥ २९५ ॥

वर्गसङ्कलितानयनसूत्रम्—

सैकेष्टकृतिर्डिना सैकेटोनेष्टदलगुणिता ।
कृतिघनचितिसङ्घातास्त्रिकभक्तो वर्गसङ्कलितम् ॥ २९६ ॥

अत्रोद्देशकः ।

अष्टाष्टादशविंशतिषष्टयेकाशीतिषट्कृतीनां च ।
कृतिघनचितिसङ्कलितं वर्णचितिं चाशु मे कथय ॥ २९७ ॥

इष्टावुत्तरपदवर्गसङ्कलितधनानयनसूत्रम् –

द्विगुणैकोनपदोत्तरतिहातिषष्ठांशमुरवचयहतद्युतिः ।
व्येकपदम्न मुरवठतिसहिता पदताडितेषुछतिचितिका ॥ २९८ ॥