पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३ प्रक.
77
कोशप्रवेश्वरत्नपरीक्षा


नीलः कलायपुष्पको महानीलो जाम्बवाभो जीमूतप्रभो नन्दकः स्रवन्मध्यः शीतवृष्टिः सूर्यकान्तश्चेति मणयः ।
 षडश्रश्चतुरश्रो वृत्तो वा, तीव्ररागसंस्थानवानच्छस्निग्धो गुरुरर्चिष्मानन्तर्गतप्रभः प्रभानुलेपी चेति मणिगुणाः ।
 मन्दरागप्रमः सशर्कर' पुष्पच्छिद्रः खण्डो दुर्विद्धो लेखाकीर्ण इति दोषाः ।
 विमलकः सत्यकोऽञ्जनमूलकः पित्तकस्सुलभको लोहित- को मृतांशुको ज्योनीरसको मैलेयक अहिच्छत्रकः कूर्पः प्रति- कूपः सुगन्धिकूपः क्षीरपकः शुक्तिचूर्णकः शिलापवालक पुळकः शुक्रपुळकः इत्यन्तरजातय ॥
 शेषाः काचमणयः ।
 सभाराष्ट्रकं मध्यमराष्ट्रक काश्मक कान्तीर] राष्ट्रकं श्रीक- टनकं मणिमन्तकमिन्द्रवा नकं च वज्रम् ।
 खनिस्स्रोतः प्रकीर्णकं च योनयः ।
 मार्जाराक्षक च शीरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फ- टिकं मूलाटीपुष्पकवर्ण मणिवर्णानामन्यतमवर्णमिति वज्रवर्णाः ।
 स्थूलं, गुरु, पहारसहं, समकोटिक भाजनलेखितं कुभ्रामि' भ्राजिष्णु च प्रशस्तम् ।
 नष्टकोणं निरश्रि पार्थापवृत्तं च अप्रशस्तम् ।


1 बकः. २ काश्मीरराष्ट्रक. 3.पान. 4. पुष्पव 5. स्निग्ध, 6 लेखिभ्रामि.