पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
.८ प्रक.]
73
शासनाधिकार

व्यसनसाहाव्यमभ्यवपत्तिः ।
सदोषमारतिवदर्शनमभिभर्सनम् ।
अनुनयस्त्रिविधोऽर्थकृतावतिक्रमे पुरुषादिव्यसने चेति ।

 प्रज्ञापनाज्ञापरिदानलेखाः
 तथा परीहारनिसृष्टिलेखौ !
 प्रावृत्तिकश्च प्रतिलेख एव
 सर्वत्रगश्चेति हि शासनानि ।।

 अनेन विज्ञापितमेवमाह तदीयतां चेद्यदि तत्त्वमस्ति ।
 राज्ञस्समीपे पर'कारमाह प्रज्ञापनैषा विविधोपदिष्टा ॥
 भर्तुराज्ञा भवेद्यत्र निग्रहानुग्रहौ प्रति ।
 विशेषेण तु भूत्येषु तदाज्ञालेखलक्षणम् ।।
 यथाऽर्हगुणसंयुक्ता पूजा यत्रोपलक्ष्यते ।
 अप्याधौ परिदाने वा भवतस्तावुपग्रहौ ॥ 83*12
 जालेविशेषेषु परेषु चैव
 ग्रामेषु देशेषु च तेषु तेषु ।
 अनुग्रहो यो नृपतेर्निदेशात् ।
 तज्ज्ञः परीहार इति व्यवस्येत् ।।
 निसृष्टिस्थापना कार्या करणे वचने तथा ।
 एषा वाचिकलेखस्यात् भवेन्नैष्टिकोऽपि वा ॥
 विविधां दैवसंयुक्तां तत्त्वजां चैत्र मानुषीम् ।


1. व 2.पुरेषु. 3. द्विविधा.