पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
12
[२ अधि. १० अध्या.
अध्यक्षप्रचारः


 वर्णसद्धातः पदम् । तच्चतुर्विधं नामाख्यातोपसर्गनिपाताश्चेति।
 तत्र नाम सत्त्वाभिधायि । अविशिष्टलिङ्गमाख्यात क्रि यावाचि । क्रियाविशेषिताः प्रादय उपसर्गाः । अव्यया- श्वादयो निपाता ॥
 पदसमूहो वाक्यमर्थपरिसमाप्तौ; एकपदावरस्बिपदपरः परपदार्थानुरोधेन वर्गः कार्यः ! लेखकपरिसंहरणार्थ इति शब्दो वाचिकमस्येति च ॥

 निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानमथार्थना ।
 प्रत्याख्यानमुपालम्भः प्रतिषेधोऽथ चोदना ॥
 सान्त्वमभ्यवपत्तिश्च भर्त्सनानुनयौ तथा ।
 एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः॥

तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा ।
गुणवचनयेतेषामेव प्रशंसा।
“कथमेतदिति" पृच्छा।
"एवम्" इत्याख्यानम् ।
देहीत्यर्थना ।

"न प्रयच्छामी" इति प्रत्याख्यानम् ॥

अननुरूपं भवत इत्युपालम्भः ।
'मा कार्षी.” इति प्रतिषेधः ।
"इदं क्रियताम्" इति चोदना।
"योऽहं स भवान् , मम द्रव्यं तद्भवतः" इत्युपग्रहः सान्त्वम् ।


1. षका.