पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६ प्रक.]
67
समुदयस्य युक्तापहृतस्य प्रत्यानयनम्


मूल्यं प्राविष्टम् ; दत्तमूल्यं न प्रविष्टं, सङ्क्षेपो विक्षेपः कृतः; विक्षेपः सङ्क्षेपो वा ; महार्धमल्पार्धेण परिवर्तितं ; अल्पार्ध महा- र्घेण वा समारोपितोऽर्धः प्रत्यारोपितो वा रात्रयः समारोपि ता वा ; प्रत्यवरोपिता वा; संवत्सरो मासविषमः कृतः; मासो दिवसाविषमो वा; समागमविषमः, मुखविषमः धार्मिकविषयः; निर्वर्तनविषमः ; पिण्डविषयः वर्णविषमः अर्धविषमः ; मानवि षमः; मापनविषम ; भाजनविषमः इति हरणोपायाः !
तत्रोपयुक्तनिधायकनिवन्धकप्रतिग्राहकदायकदापकमन्त्रिवै यावृत्यकरानेकैकशोऽनयुञ्चीत । मिथ्यावादे चैपां युक्तसमो दण्डः । प्रचारे चापघोषयेल-"अमुना प्रकृतेनोपहताः प्रज्ञा- पयन्त्विति ' । प्रज्ञापयतो यथोपघात दापयेत् । अनेकेषु चाभियोगेष्वपव्ययमानस्सकृदेव परोक्तः सर्व भजेत । वैषम्ये सवाात्रानुयोग दद्यात् । महत्यार्थापचारे चाल्पेनापि सिद्धस्सर्वं भजेत । कृतप्रतिघातावस्थसूचको निष्पन्नार्थष्षष्ठमंशं लभेत । द्वादशमंशं भृतकः । प्रभूताभियोगादल्पनिष्पत्तौ निष्पन्नस्यांशं लभेत। अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत । न चानुग्राह्यः।

निष्पत्तौ निक्षिपद्वादमात्मानं वाऽपवाहयेत् । 274
अभियुक्तोपजापास्तु सूचको वधमाप्नुयात् ॥

इत्यध्यक्षपचारे समुदयस्य युक्तापतस्य प्रत्यानयनं
अष्टमोऽध्यायः। आदित एकोनत्रिंश .


1. हारे. 2 .स्थस्सू