पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६ प्रक]
65
समुदयस्य युक्तापहृतस्य प्रत्यानयनम्


 राजार्थेऽर्थकारणिकस्याप्रतिन्धतः प्रतिषेधयनो वाऽऽज्ञानिब न्धादायव्ययमन्यथा वा विकल्पयतः पूर्वस्साहसदण्ड ||
 क्रमावहिनमुत्क्रममाविज्ञात पुनरुत्क्तं वा वस्तुकमवलिहतो द्वा- दशपणो दण्डः ॥
निवीमवलिखतो द्विगुण । भक्षयतोऽष्टगुणः । नाशयतः पञ्च- बन्धः प्रतिदानं च । मित्थ्यावादे स्तेयदण्डः । पश्चात् प्रतिज्ञाते द्विगुणः प्रस्मृतोत्पन्ने च-

अपराधं सहेताल्पं तुष्येऽदल्पेऽपि चोदये । 735
महोपकार चाध्यक्षं प्रग्रहेणाभिपूजयेत् ॥
इत्यध्यक्षप्रचारे अक्षपटले गाणनिक्याधिकार
सप्तमोऽध्यायः आदितोऽष्टाविंशः


२६ प्रक. समुदयस्य युक्तापहतस्य प्रत्यानयनम्.


कोशपूर्वास्सवार॔म्भाः ॥
तस्मात्पूवे॔ कोशमवेक्षेत ॥

प्रचारसमाधै चरित्रानुग्रहश्चोरग्रहों युक्तप्रतिषेधः सस्यसम्प- त्पण्यबाहुल्यमुपसर्गप्रमोक्षः परिहर क्षयो हिरण्योपायनमिति को शवृद्धिः ।
प्रतिबन्धः प्रयोगो व्यवहारोऽवस्तारः परिहापणमुपभोगः

परिवर्तनमपहारश्चेति कोशक्षयः॥


-1 लिखतो.  -2समृद्धि . -3निग्रह 

  • परिहार ' इति युक्तम् परिहारपद च ४७ पुटे प्रयुक्त दृश्यते.