पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४ प्रक.]
59
समाहर्टसमुदयवस्थापनम्


शुद्धं पूर्णमभिनवं च धान्यं प्रतिगृह्णीयात् । विपर्यये मूलद्विगुणो दण्डः।
तेन पण्यं कुप्यमायुधं च व्याख्यातम् ।
सर्वाधिकरणेषु युक्तोपयुक्ततत्पुरुषाणां पणादिचतुष्पणा: 651
पर' मापहारेषु पूर्वमध्यमोत्तमवधा दण्डाः ।
कोशाधिष्ठितस्य कोशावच्छेदे घातः ।
तद्वैयावृत्यकाराणा मर्धदण्डः । परिभाषणमाविज्ञाते ।
चोराणामभिप्रधर्षणे चित्रो घातः।
तस्मादाप्तपुरुषाधिष्ठितः सन्निधाता निचयानानुतिष्ठेत् ।
बाह्यमाभ्यन्तरं चायं विद्याद्वर्षशतादपि ।
यथा पृष्टो न सज्येत व्ययशेषं च दर्शयेत् ।

इत्यध्यक्षप्रचारे सन्निधातृनिचयकर्म पञ्चमोऽध्यायः.
आदितष्षड्विश.


२४. प्रक. समाहर्तृसमुदयप्रस्थापनम् .


समाहर्ता दुर्ग राष्ट्रं खनि सेतुं वनं व्रज वणिक्पथं चावक्षेत। 657


1 पणद्विपणचतुष्णपर,
2 वैयावृत्य व्यावृत्तकर्मरूप उपष्टम्भनमित्यर्थ' इति प्रश्नव्याकरणसूत्रव्या. ख्याने प. ४१५ तेन च वैयावृत्य साहाय्यमित्यर्थ ,
4"तर्जा-हस्तादिना चोरें प्रति प्रेषणादिसज्ञाकरणम्” इति प्रश्नव्याकरण- सूत्रव्याख्याने-प. १९३, अभिप्रवर्षणं च तर्जापर्याय , प्रधर्षणे.