पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४-१५ प्रक.]
35
अवरुद्धवृत्तमदरुद्धे च वृत्ति

 स यद्येकपुत्रः पुत्रोत्पत्तावत्य प्रयतेत । पुत्रिकापुत्रानुत्पादयेद्वा ।
 वृद्धस्तु व्याधितो वा राजा मातृबन्धुतुल्य' गुणवत्सामन्ता नामन्यतमेन क्षेत्रे बीजमुत्पादयेत् । न चैकपुत्रमविनीतं राज्ये स्थापयेत् ।

बहूनामकसंरोधः पिता पुत्रहितो भवेत् ।।
अन्यत्रापद ऐश्वर्यं ज्येष्ठभागी तु पूज्यते ॥
कुलस्य वा भवेद्राज्यं कुलसञ्घो हि दुर्जयः ।
अराजव्यसनाबाधः शश्वदावसति क्षितिम् ॥
इति विनयाधिकारके राजपुत्ररक्षणं सप्तदशोऽध्यायः


१४-१५. प्रक. अवरुद्धवृत्तमवरुद्धे च वृत्तिः.

 राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरमनुवर्तेत अन्यत्र प्राणाबाधकप्रकृतिकोप पातकेभ्यः ।

पुण्यकर्मणि नियुक्तः पुरुषमधिष्ठातारं याचेत ।।
पुरुषाधिष्ठितश्च सावशेषमादेशमनुतिष्ठेत् ।
अभिरुप च कर्मफलमैौपायनिकं च लाभ पितुरुपनाययेत् ।।

 तथाऽप्यतुष्यन्तमन्यस्मिन् पुत्रे दारेषु वा स्त्रिह्यन्तमरण्याय आपृच्छेत् बन्धबधभयाद्वा यस्सामन्तो न्यायव्रत्तिधार्मिकः


1 कुल्य, 2. कोपक. ३ अविरुद्धं.