पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
34
[१ अधि, १७ अध्या.
विनयाकादिकम्

 “महादोषमबुद्धबोधनमिति" कौटिल्यः । नवं हि द्रव्यं येन येनार्थजातेनोपदिह्यते तत्तदाचूषति । एवमयं नवबुद्धि र्यद्यदुच्यते तत्तच्छास्त्रोपदेशमिवाभिजानाति । तस्माद्धर्ममर्थे चास्योपदिशेन्नाधर्ममनर्थे च । सत्रिणस्त्वेनं[१] 'तव स्मः' इति वदन्तः पालयेयुः ।  यौवनोन्सेकात् परस्त्रीषु मनः कुर्वाणं आर्याव्यञ्जनाभि स्स्त्रिभिरमेध्या[२] भिश्शून्यागारेपु रात्रावुद्वैजयेयु: ॥

मद्यकामं योगपानेनोद्रेजयेयुः ।
द्युत्कामं कापाटिकैः पुरुषैरुद्वैजयेयुः ।।
मृगयाकामं प्रतिरोधकव्यञ्जनैस्त्रासयेयुः ।
पितरि विक्रमबुद्धिं तथेत्यनुप्रविश्य भेदयेयुः ।।

 “अप्रार्थनीयो राजा विपन्न्ने घातस्सम्पन्ने नरकपातः, संक्रो शः प्रजाभिरेकलोष्टवधश्चेति" । विरागं प्रियमेकपुत्रं वा बध्नियात्।।  बहुपुत्रः प्रत्यन्तमन्यविपयं वा प्रेपयेद्यत्र गर्भः एण्ड्यं[३] डिमवो[४] वा न भवेत् ।।
 आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।

बुद्धिमानाहार्यवृद्धिदुर्वृद्धिरिति पुत्रविशेषाः ।
शिष्यमाणो धर्मार्थावुपलभते चानुतिष्टतेि च बुद्धिमान् ।
उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः ।
अपायनित्यो धर्मार्थद्वेषी चेति दुर्बुद्धिः ।।

  1. श्चैन
  2. रसैव्या.
  3. पण्य,
  4. डिम्वो,