पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
32
[१ अधि. १६ अध्या,
विनयााधकारिकम्

प्रेषणं सन्धिपालत्वं प्रतापो भित्रसङ्ग्रहः ।
उपजापस्सुहृद्भेदो गूढदण्डातिसारणम् ॥
वन्धुरत्नापहरणं चारज्ञानं पराक्रमः ।।
समाधिमोक्षो दूतस्य कर्मयोगस्य चाश्रयः ॥
स्वदूतैः कारयेदेतत् परदूतांश्च रक्षयेत् ।।
प्रतिदूतापसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः ॥

इति विनयाधिकारिके दूतप्रणिधिः षोडशोऽध्यायः,


१६. प्रक, राजपुत्ररक्षण,

 रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च[१] । पूर्वे दारेभ्यः पुत्रेभ्यश्च ।
 दाररक्षणं निशान्तप्रणिधौ वक्ष्यामः ।
 पुत्ररक्षणं-जन्मप्रभृति राजपुत्रान्नक्षेत् । कर्कटकसधर्माणो हि जनकभक्षाः राजपुत्राः ।
 “तेषामजातस्नेहे पितर्युपांशुदण्डश्श्रेयान्” इति भारद्वाजः ।
 “नृशंसमदृष्ट[२] वधः क्षेत्रबीजविनाशश्चेति” विशालाक्षः । तस्मादेकस्थानावरोधश्श्रेयानिति ।
 “अहिभयमेतदिति” पाराशराः । कुमारो हि विक्र-


  1. छात्रेभ्यश्च,
  2. मद्दष्टं