न दीर्घकाले मन्त्रयेत च तेषां पक्षै[१]र्येषां अपकुर्यात् ।
“मन्त्रिपरिषदं द्वादशामात्यान्कुर्वीतेति” मानवाः ।
“षोडशेति” बार्हस्पत्याः ।
“विंशतिम्” इत्यौशनसाः ।
“यथासामथ्र्यम्” इति कौटिल्यः ।।
ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः । अकृतारम्भमा
रब्धानुष्ठानमनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः ।
आसन्नै[२] स्सह कार्याणि पश्येत् । अनासनैस्सह पत्रसम्प्रेषणेन
मन्त्रयेत।
इन्द्रस्य हि मन्त्रिपरिषदृषीणां सहस्रम् । तचक्षुः[३] । तस्मा
दिमं द्वयक्षं सहस्राक्षमाहुः ।
अत्यायिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात् ।
तत्र यद्भूयिष्टाः कार्यसिद्धिकरं वा ब्रूयुस्तत्कुर्यात् । कुर्वतश्च---
नास्य गुह्यं परे विद्युः छिद्रं विद्यात्परस्य च । 337 |
इति विनयाधिकारिके मन्त्राधिकारः पञ्चदशोऽध्यायः, |