पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ प्रक.]
27
मन्त्राधिकार

दिरुत्सेकः । प्रन्छन्नोऽवमतो वा मन्त्रं भिनात्ति । तस्मा द्रक्षेन्मन्त्रम् ।
 मन्त्रभेदोऽन्ययेाग[१]क्षेमकरो राज्ञस्तदायुक्तपुरुषाणां च ।।
 तस्मात्-"गुह्यमेको मन्त्रयतेति" भारद्वाजः । मन्त्रि णामपि हि मन्त्रिणो भवन्ति । तेषामप्यन्ये । सैषा मन्त्रि- परम्परा मन्त्रं भिनत्ति !

तस्मानास्य परे विद्युः कर्म किञ्चिञ्चिकीर्षितम्।
अरब्धारस्तु जानीयुरारब्धं कृतमेव वा ।।

 "नैकस्य मन्त्रसिद्धिरस्तीति" विशालाक्षः । प्रत्यक्षप रोक्षानुमेया हि राजवृत्तिः । अनुपलब्धस्य ज्ञानमुपलब्धस्य नि श्चयबलाधानमर्थद्वैधस्य संशयच्छेदनमेकदेशद्दष्टस्य शेषोपलब्धि रिति मन्त्रिसाध्यमेतत् । तस्माद्बुद्धिवृद्धैसार्धमासीत मन्त्रम् ।।

न किञ्चदवमन्येत सर्वस्य शृणुयान्मतम् ।
बालस्याप्यर्थवद्राख्यम्मुपयुञ्जीत पण्डितः ॥

 “एतन्मन्त्रज्ञानं नैतन्मन्त्ररक्षणमिति" पराशरः । यद स्य कार्यमाभिप्रेतं तत्प्रतिरूपकं मंन्त्रिणः पृच्छेत् । 'कार्यमि दमेवमासीदेवं वा यदि भवेत्तत्कथं कर्तव्यमिति' । ते यथा ब्रूयुः तत्कुर्यात् । एवं मन्त्रोपलब्धिः संवृतिश्च भवतीति ।


  1. दोऽयोग.