पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
455
चाणक्यसूत्राणि

531 धर्मकृत्येष्वपि स्वामिन एव घोषयेत् ।
532 राजाज्ञां नातिलङ्घयेत् ।
533 यथाऽऽज्ञप्तं तथा कुर्यात् ।
534 नास्ति बुद्धिमतां शत्रु !
535 आत्मच्छिद्रं न प्रकाशयेत् ।
536 क्षमावानेव सर्व साधयति ।
537 आपदर्थ धन रक्षेत् ।
538 साहसवतां प्रियं कर्तव्यम् ।
639 श्व कार्यमद्य कुर्वीत।
540 आपराह्निकं पूर्वाह्न एव कर्तव्यम् ।
541 व्यवहारानुलोमो धर्मः।
542 सर्वज्ञता लोकज्ञता।
543 शास्त्रज्ञोप्यलोकज्ञो मूर्खतुल्यः ।
544 शास्त्रप्रयोजनं तत्त्वदर्शनम् ।
545 तत्त्वज्ञानं कार्यमेध प्रकाशयति ।
548 व्यवहारे पक्षपातो न कार्यः ।
547 धर्मादपि व्यवहारो गरीयान् ।
548 आत्मा हि व्यवहारस्य साक्षी।
549 सर्वसाक्षी ह्यात्मा।
560 न स्यात्कूटसाक्षी।
551 कूटसाक्षिणो नरके पतन्ति ।
552 प्रच्छन्नपापानां साक्षिणो महाभूतानि ।
553 आत्मनः पापमात्मैव प्रकाशयति ।
554 व्यवहारेऽन्तर्गतमाकारस्सूचयति ।
555 , आकारसंचरणं देवानामशक्यम् ।