पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
445
चाणक्यसूत्राणि

284 पुरुषस्य मैथुनं जरा।
285 स्त्रीणाममैथुनं जरा।
286 न नीचोत्तमयोवैवाहः ।
287 अगम्यागमनादायुर्थशःपुण्यानि क्षीयन्ते ।
288 नास्त्यहङ्कारसमश्शत्रु।
289 संसदि शत्रु न परिक्रोशेत् ।
290 शत्रुव्यसनं श्रवणसुखम् ।
291 अधनस्य बुद्धिर्न विद्यते ।
292 हितमप्यधनस्य वाक्यं न गृह्यते ।
293 अधनम्स्वभार्ययाऽप्यवमन्यते ।
294 पुष्पहीनं सहकारमपि नोपासते भ्रमराः ।
295 विद्या धनमधनानाम् ।
296 विद्या चोरैरपि न पाया।
297 विद्यया ख्यापिता ख्याति ।
298 यशश्शरीरं न विनश्यति ।
299 य परार्थमुपसर्पति स सत्पुरुषः ।
300 इन्द्रियाणा प्रशमं शास्त्रम् ।
301 अशास्त्रकार्यवृत्तौ शास्त्राङ्कुशं निवारयति ।
302 नीचस्य विद्या नोपेतव्या ।
803 म्लेच्छभाषण न शिक्षेत ।
304 म्लेच्छानामपि सुवृत्तं ग्राह्यम् ।
305 गुणे न मत्सर कर्तव्यः ।
306 शत्रोरपि सुगुणो ग्राह्य ।
307 विषादप्यमृतं ग्राह्यम् ।।
308 अवस्थया पुरुषस्संमान्यते ।