पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
434
अर्थशास्त्र

20 अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ।
21 श्रुतवन्तमुपधाशुद्धं मन्त्रिण कुर्वीत।
22 मन्त्रमूलास्सर्वारम्भा.।
23 मन्त्ररक्षणे कार्यसिद्धिर्भवति ।
24 मन्त्रविस्रावी कार्यं नाशयति ।
25 प्रमादात् द्विषतां वशमुपयास्यति ।
26 सर्वद्वारेभ्यो मन्त्रो रक्षितव्यः ।
27 मन्त्रसंपदा राज्यं वर्धते ।
28 श्रेष्ठतमां मन्त्रगुप्तिमाहुः ।
29 कार्यान्धस्य प्रदीपो मन्त्रः ।
30 मन्त्रचक्षुषा परीच्छद्राण्यवलोकयन्ति ।
31 मन्त्रकाले न मत्सर कर्तव्य ।
32 त्रयाणामेकवाक्ये सप्रत्ययः ।
33 कार्याकार्यतत्त्वार्थदर्शिनो मन्त्रिणः ।
34 षट्कर्णाद्भिद्यत् मन्त्र ।
35 आपत्सु स्नेहसंयुक्त मित्रम् ।
36 मित्रसंग्रहणे बलं सपद्यते ।
37 बलवानलब्धलामे प्रयतते ।
38 अलब्धलाभो नालसस्य ।
39 अलसस्य लब्धमपि रक्षितुं न शक्यते ।
40 स चालसस्य रक्षितं विवर्धते ।
41 न भृत्यान् प्रेषयति ।
42 अलब्धलाभादिचतुष्टयं राज्यतन्त्रम।

1 I. 10 सर्वोपवाशुद्धान् मन्त्रिण कुर्वीत I. 15 मन्त्रपूर्वास्सवीरम्भा .

सर्व.