पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८ प्रक
423
प्रलम्भने भैषज्यमन्त्रयोगः

 चण्डालीकुम्बातम्भकदुकसाराधः सनीरीभगोऽसि स्वाहा; 5096

तालोद्धाटनं प्रस्वापनं च ।

 त्रिरात्रोपोषित पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरः-

कपाले मृत्तिकायां वल्लीरावाम्योदकेन सेचयेत् । जातानां

पुष्येणैव गृहीत्वा रज्जुकां वर्तयेत्। ततस्सज्यानां धनुषां यन्त्रा-

णांच पुरस्ताच्छेदनं ज्याच्छेदनं करोति । उदकाभिस्त्रामु

च्छवासमृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत् नासिकावर्धनम्।

 मुखगृहश्च ।

 वराहहस्तिभस्त्रामुच्छवासमृत्तिकया पूरयित्वा मर्कटस्नायु-

ना बध्नीयात्; अनाहकारणम् ।

 कृष्णचतुर्दश्यां शस्त्रहताया गोः कपिलायाः पित्तेन राजवृ

 क्षमयीममित्रप्रतिमां मज्जयात् । अन्धीकरणम् ।

 चतुर्नतोपवासी कृष्णचतुर्दश्यां बलिं कृत्वा शूलप्रोतस्य

पुरुषस्यास्थ्ना कीलकान् कारयेत् । एतेषामेक. पुरीषे मूत्रे वा

निखात आनाह करोति । पादेऽस्यासने वा निखात. शोषेण

मारयति । आपणे क्षेत्रे गृहे वा वृत्तिच्छेदं करोति ।

एतेन लेपकल्केन विद्युद्दण्डस्य वृक्षस्य कीलका व्याख्याताः।

 पुनर्नवमवाचीनं निम्बः काममधुश्च यः ।

 कपिरोममनुष्यास्थि बध्वा मृतकवाससा॥

 निखन्यत्ते गृहे यस्य दृष्ट्वा वा यं पदानयेत् ।  5108

 सपुत्रदारस्सधनस्त्रीन्पक्षान्नातिवर्तते ।।


1 इग्धस्य, 2 यद.