पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
422
[१४ अवि, ३ अध्या
औपनिषदिकम्

508 8  जयन्तु जयति च नमः शलकभूतेभ्य स्वाहा ।

 सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहला ॥

 सुखं स्वपन्तु सिद्धार्था यमर्थं मार्गयामहे ।

 यावदस्तमयादुदयो यावदर्थं फलं मम ॥

इति स्वाहा ।

 एतस्य प्रयोगः--चतुर्नक्तोपवासी कृष्णचतुर्दश्यामसङ्कीर्ण

आदहने बलिं कृत्वा मन्त्रेण शवशारिकां गृहीत्वा पौत्री-

पौट्टलिका बध्नीयात् । तन्मध्ये श्वाविधः शल्यकेन विध्वा यत्रै

तेन मन्त्रेण निखन्यते, तत्सर्वं प्रस्वापयति ।

 उपैमि शरणं चाग्निं देवतानि दिशो दश ।

  अपयान्तु च सवाणि वशतां यान्तु मे सदा ॥

स्वाहा ।

 एतस्य प्रयोगः--त्रिरात्रोपोपितः पुष्येण शर्करा एकविंश-

तिमंपानं कृत्वा मधुधृताभ्यां अभिजुहुयात् । ततो गन्धमाल्येन

पूजयित्वा निखानयेत् । द्वितीयेन पुष्येणोद्धृत्यैका शर्करामभि

मन्त्रय्य कवाटमाहन्यात् । अभ्यन्तरं चतसृणां शर्कराणां द्वार

मपात्रियते।

509 5  चतुर्नक्तोपवासी कृष्णचतुदश्यां पुरुषस्यास्थ्ना ऋषभं का-

रयेत् । अभिमन्त्रयेच्च । एतेन द्विगोयुक्तं गोयानमाहृतं भवति ।

ततः परमाकाशे विक्रामति; रविसन्धपरिख्यातिं सर्वं भणाति


1 पालिक. 2 भग्नस्य पुरुषस्या. रविरवि सगन्धपरिघाति ,