पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
420
[१४ अधि, ३ अध्या.
औपनिषदिकम्

5069   एतेषामनुयोगेन कृतं ते स्वापनं महत् ।।

  यथा स्वपन्त्यजगरास्वपन्त्यापि चमूखलाः ।

  तथा स्वपन्त पुरुषा ये च ग्रामे कुतूहलाः ॥

  भण्डकानां सहस्रेण रथनेमिशतेन च ।

  इमं गृहं प्रवेक्ष्यामि तूष्णीमासन्तु भाण्डकाः ।।

  नमस्कृत्वा च मनवे बध्वा शुनकफेलकाः ।

  ये देवा देवलोकेषु मानुषेषु च ब्राह्मणाः ॥

  अद्धययनपारगास्सिद्धाः ये च कैलासतापसाः ।

  एतेभ्यस्सर्वसिद्धेभ्यः कृतं ते स्वापनं महत् ॥

  अतिगच्छति चमर्यपगच्छन्तु संहताः ।

  अलिते पलिते मनवे स्वाहा ॥

 एतस्य प्रयोगः--विरात्रोपोषितः कृष्णचतुर्दश्यां पुष्य-

योगिन्यां श्वपाकीहस्ताद्विलखावलेखनं क्रीणीयात् । तन्माषै

स्सह कण्डोलिकायां कृत्वा असङ्कीर्ण आदहने निखानयेत् ।

द्वितीयस्यां चतुर्दश्यामुद्धृत्य कुमार्या पेपयित्वा गुळिकाः

कारयेत् । तत एकां गुलिकामभिमन्त्रयित्वा यत्रैतेन मन्त्रेण

क्षिपति, तत्सर्वं प्रस्थापयति । एतेनैव कल्पेन श्वाविधः शल्यकं

त्रिकालं विश्वेतप्रसङ्कीर्ण आदहने निखानयेत् । द्वितीयस्यां

507 1 चतुर्दश्यां उद्धृत्य दहनभस्मना सह यत्रैतेन मन्त्रेण क्षिपति, त.

त्सर्वं प्रस्वापयति ।