पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८ प्रक]
419
प्रलम्भने भैषज्यमन्त्रयोग

 त्रिरात्रोपोषित पुष्येण श्वमार्जारोलूकवागुलीनां दक्षिणानि 5067

बामानि चाक्षीणि द्विधा चूर्ण कारयेत् । ततो यथास्वमभ्यक्ता-

क्षो नष्टच्छायारूपश्चरति ।

 त्रिरात्रोपोषितः पुष्येण पुरुषघातिनः काण्डकस्य शलाकां

च कारयेत् । ततो निशाचराणां सत्वानां अन्यतमस्य शिरः

कपालमञ्जनेन पूरयित्वा मृतायास्त्रिया योनौ प्रवेश्य दाहयेत

तदञ्जनं पुष्येणोद्धृत्य तस्यामञ्जन्यां निदध्यात् । तेनाभ्यक्ताक्षो

नष्टच्छायारूपश्चराति।

 यत्र ब्राह्मणमाहिताग्निं दग्ध दह्यमानं वा पश्येत् , तत्र त्रि.

रात्रापोषितः पुष्येण स्वयंमृतस्य वाससा प्रसेवं कृत्वा चिताभ-

स्मना पूरयित्वा तमाबध्य नष्टच्छायारूपश्चरति ।

 ब्राह्मणस्य प्रेतकार्ये यो गौः मार्यते, तस्य अस्थिमज्जाचूर्ण-

पूर्णाहिभस्त्रा पशूनामन्तर्धानम् ।

 सर्पदष्टस्य भस्मना पूर्णा प्रचलाकभस्त्रा मृगाणामन्तर्धानम् ।

 उलूकवागुलीपुच्छपुरीपजान्वास्थिचूर्णपूर्णाहिभस्त्रा पक्षिणा-

मन्तर्धानम् । इत्यष्टावन्तर्धानयोगा।

 बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।।  5068


 भण्डीरपाकं नरकं निकुम्भ कुम्भमेव च ॥

 देवलं नारदं वन्दे वन्दे सावर्णिगालवम् ।।


1 काण्वकस्य शलाकामजरी 2 ततोऽन्यतमेनाक्षिचूर्णेनाभ्यक्ताक्षो नष्टच्छायारूपश्चरति। विरात्रोपोषित्र पुष्येण कालायसीमजनी शलाका व कारयेत् । ततो