493 2 भूतपूर्वे---येन दोषेणापवृत्तः, त प्रकृतिदोष छादयेत् येन
च गुणेनोपावृत्तः, तं तीव्रीकुर्यादिति ।
पित्रये--पितृदोषांश्छादयेत् । गुणांश्च प्रकाशयेदिति ।
चरित्रमकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् ।।
प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैनिवर्तयेत् ।।
उति दुर्गलम्भोपाये त्रयोदशेधिकरणे लब्धप्रशमनं पञ्चमोध्यायः ।
आदित. पञ्चचत्वारिंशच्छतः। एतावता कौटिलीयस्या-
र्थशास्त्रस्य दुर्गलम्भोपायस्त्रयोदशाधिकरणं समाप्तम्
१४ अधि. औपनिषदिकम्, |
१७७ प्रक, परधातप्रयोगः. |
495 1 चातुर्वर्ण्यरक्षार्थमौपानषीदकमधर्मिष्टेषु प्रयुञ्जीत ।
कालकूटादिः विषवर्गः श्रद्धेयदेशवेषशिल्पभाजनापदेशैः
कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मभिः म्लेच्छजातीयैरभि-
प्रेतैः स्त्रीभिः पुंभिश्च परशरीरोपभोगेष्वाधातव्यः' ।
राजक्रीडाभाण्डनिधानद्रव्योपभोगेषु गूढाश्शस्त्रीनधानं कुर्युः;
सत्राजीविनश्च रात्रिचारिणोऽग्निजीविनश्चाग्निनिधानम् ।
चित्रभेककौण्डिन्यककृकणपञ्चकुष्ठशतपदीचूर्णमुञ्चिदिङ्गकं बली-
शतकन्देध्मकृकलासचूर्ण गृहगौळिकान्धाहिकक्रकण्ठकपूतिकीट-
1 छक्धातव्य. |