पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३ प्रक.]
408
अपमर्पप्रणिधिः

शङ्खदुन्दुभिशब्देन वा प्रविष्टमित्यावेदयेयुः । प्राकारद्वाराहट्टा 4851

लकदानमनीकभेदं पातं वा कुर्युः ।

 सार्थगणवासिभिरातिवाहिकैः कन्यावाहिकैरश्वपण्यव्यवहा-

रिभिरुपकरणहारकैर्धान्यक्रेतृहविक्रेतृभिर्वा प्रव्रजितलिङ्गिभिर्ध्यू -

तैश्च दण्डातिनयनं सन्धिकर्मविश्वासनार्थमिति राजापसर्पाः ।

एत एवाटवीनामपसर्पा कण्टकशोधनोक्ताश्च ब्रजमटव्यासन्न-

मपसर्पास्सार्थं वा चोरैर्घातयेयुः । कृतसङ्केतमन्नपानं चात्र मद-

नरसविद्धं वा कृत्वाऽपगच्छेयुः । गोपालकवैदेहकाश्च ततश्चोरा

गृहीतलोप्तृभाराः मदनरमविकारकालेऽवस्कन्दयेयुः । सङ्कर्ष-

णदैवतीयोगो' वा मुण्डजटिलव्यञ्जनः प्रवहण कर्मणा मदनरस-

योगमतिसंदध्यात् । अथावस्कन्दं दद्यात् । शौण्डिकव्यञ्जनो

वा दैवतप्रेतकार्योत्सवसमाजेवाटविकान् सुराविक्रयोपाय-

नानिमित्तं मदनरसयोगाभ्यामतिसंदध्यात् । अथावस्कन्दं

दद्यात् ।

ग्रामघातमाविष्ट वा विक्षिप्य बहुधाऽटवीम् । 4856
  
घातयेदिति चोराणामपसर्पा- प्रकीर्तिता. ॥

 इति दुर्गलम्भोपाये अपसर्पप्रणधिस्तृतीयोऽध्यायः

  आदितस्त्रिचत्वारिंशच्छत1 योगा. व्यङ्गना,प्रहवण,