पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
390
१२ अधि. ४ अध्या.
आवलीयसम्

469 4  कर्मकरव्यञ्जना वा रसाक्तं यवसमुदक वा विक्रीणीरन् । चिरसंसृष्टा वा गोवाणिजका गवाजावीना वा यूथान्यवस्क न्दकालेषु परेषां मोहस्थानेषु प्रमुञ्चेयुः । अश्वखरोष्ट्रमहिषादी ना दुष्टांश्च तद्वयञ्जना वा चुचुन्दरीशोणिताक्ताक्षान् ; लुब्धक- व्यञ्जना वा व्याळमृगान् पञ्जरेभ्यः प्रमुञ्चयुः; सर्पग्राहा वा स- र्पानुग्रविषान् ; हस्तिजीविनो वा हस्तिनः; अग्निजीविनो वा अ. ग्निमवसृजेयुः । गूढपुरुषा वा विमुखान् पत्त्यश्वरथीद्वपमुख्यान- भिहन्युः, आदीपयेयुर्वा मुख्यावासान् ; दूष्यामित्राटविकव्यञ्ज- नाः प्रणिहिताः पृष्ठाभिघातमवस्कन्दप्रतिग्रहं वा कुर्युः । वनगूढा वा प्रयन्तस्कन्धमुपनिष्कृष्याभिहन्युः ! एकायने वीवधासारप्र सारान् वा ससङ्केतं वा रात्रियुद्धे भूरितूर्यमाहत्य ब्रूयुः-"अनु प्रविष्टास्मो लब्धं राज्यम्" इति । राजावासमनुप्रविष्टा वा सङ्कलेषु राजानं हन्युः । सर्वतो वा प्रयातमेनं म्लोच्छाटविक दण्डचारिण. सत्रापाश्रयस्तम्भवाटापाश्रया वा हन्युः । लुब्ध कव्यञ्जना वाऽवस्कन्दसङ्कलेषु गूढयुद्धहेतुभिरभिहन्युः । एका यने वा शैलस्तम्भपटखञ्जना[१]न्तरुदके वा स्वभूमिबलेनाभिहन्युः। नदीसरस्तटाकसेतुबन्धभेदवेगेन वा प्लावयेयुः । धान्वनवनदु र्गनिम्नदुर्गस्थं वा योगाग्निधूमाभ्यां नाशयेयुः । सङ्कटगतमग्नि- ना, धान्वनगतं धूमेन निधानगतं रसेन , तोयावगाढं दुष्टग्रा 470 2 हैरुदकचरणैर्वा तीक्ष्णास्साधयेयुः । आदीप्तावासात् निष्पत- न्तं वा-

  1. 1 स्तिम्भवनाखाना.