जयेन । पारिपतन्तकं सर्वतोभद्रेण । दुर्जयेन सर्वान् प्रति 4526 व्यूहेत। पत्त्यश्वरथद्विपाना पूर्वपूर्वमुत्तरेण घातयेत् । हीनाङ्गमधि- काङ्गेन चेति । अङ्गदशकस्यैक पनि पदिकः; पदिकदश- कस्यैकः सेनापतिः । तद्दशकस्यैको नायक इति । स तूर्यघो- षध्वजपताकाभिः व्यूहाङ्गानां संज्ञास्स्थापयेत् । अङ्गविभागे सङ्घाते स्थाने गमने व्यावर्तने प्रहरणे च समे ब्यूहे देशकालयो- गात्सिद्धिः।
दण्डैरुपनिषधोगैः तीक्ष्णेर्व्यासक्तघातिभिः ।
मायाभिर्देवसंयोगैः शकटैर्हस्तिभूषणैः ॥
दूष्यप्रकोपैर्गोयूथैस्स्कन्धावार प्रदीपनैः ।
कोटीजघनघातैर्वा दूतव्यञ्जनभेदनैः ।।
दुर्गे दग्धं हृत वा ते कोप कुल्य. समुत्थितः ।
शत्रुराटविको वेति परस्योद्वेगमाचरेत् ॥
एक हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । 4535
प्राज्ञेन तु मतिः क्षिप्ता हन्याद्भर्गतानपि ।
इति सांग्रामिके दण्डभोगमण्डलासंहतव्यूहव्यूहनं, तस्य प्रतिव्यूहस्थापनं च षष्ठोऽध्याय ।आदितश्चतुस्त्रिंशच्छतः एतावता कौटिलीयस्यार्थशास्त्रस्य सांग्रामिक दशममाधिकरणं समाप्तम्
48