पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
366
[१० अधि २ अध्या
साग्रामिकम्

440 2  एकायनमार्गप्रयातस्य सेनानीश्वाहारग्रास[१] शय्यामस्ताराग्नि निधानध्वजायुधसङ्ख्यानेन परबलज्ञानं तदात्मनो गूहयेत् ।

पार्वतं वा नदीदुर्ग सापसारप्रतिग्रहम् ।
स्वभूमौ पृष्टतः कृत्वा युध्येत निविशेत च ।।

इति साङग्रमिके दशमेऽधिकरणं स्कन्धावारप्रयाण, बलव्यसनाव-  स्कन्दकालरक्षणं च द्वितीयोध्यायः आदितत्रिंशच्छतः


१५०-१५२ प्रक. कूटयुद्धविकल्पाः,स्वसै-
न्योत्साहनं, स्वबलान्यवलव्यायोगश्च.


 बलविशिष्टः कृतोपजापः प्रतिविहितकर्तुत्स्वभूम्यां प्रकाश- युद्धमुपेयात् विपर्यये शकटयुद्धम् ।  बलव्यसनावस्कन्दकालेषु परमभिहन्यात् । अभूमिष्ठं वा स्वभूमिष्ठः ।   प्रकृतिप्रग्रहो वा स्वभूमिष्ठं दूष्यामित्राटवीबलैर्वा भङ्गं दत्वा विभूमिप्राप्तं हन्यात् । संहतानीकं हस्तिभिर्भेदयेत् । पूर्वं भङ्गप्रदानेनानुप्रलीनं भिन्नमभिन्नं प्रतिनिवृत्य हन्यात् ।  पुरस्तादभिहत्य प्रचलं विमुखंवा पृष्ठतो हस्त्यश्वेनाभिहन्यात्[२] । 4411 पुरस्ताद्विषमायां पृष्ठतोऽभिहन्यात् ! पृष्ठतो विषमायां पुरस्ता- दभिहन्यात् । पार्श्वतो विषमायां इतरतोऽभिहन्यात् ।[३]

  1. 1श्चारग्रासहार
  2. 2 पृष्टतोऽभिहत्य प्रचल विम
  3. वा पुरस्तात्सारवलेनाभि- हन्यात् । ताभ्या पाभिधातौ व्याख्याता। यतो वा दध्यफल्गबल ततोऽमिहन्यात् ।धुरस्ताद्विषमाया.