पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
364
[१० आधि. १ अध्या
सानामिक

438 1 र्याग्नयः गूढाश्चारक्षाश्शत्रूणामापाने कूपकूटावपातकण्टकिनीश्च स्थापयेत् । अष्टादशवर्गाणामात्मरक्षविपर्यास[१] कारयेत् । दि- वायासच कारयेदपसर्पज्ञानार्थम् ।।  विवादसौरिकसमाजातवारणं च कारयेत् । मुद्रारक्षणं च । सेनानीवृत्तमायुधीयमशासनमन्तपालोऽनुबध्नीयात् ।।

पुरस्तादध्वनस्सम्यक्प्रशास्ता ग्रहणानि च ।
यायाद्वर्धकिविष्टिभ्यामुदकानि च कारयेत् ॥

इति साङ्गामिके दशमेऽधिकरणे स्कन्धावारानिवेशः प्रथमोध्यायः           आदित एकोनत्रिंशच्छतः


१४८-१४९ प्रक. स्कंधावारप्रयाणं,
बलव्यसनावस्कन्दकालरक्षणं च.


 ग्रामारण्यानामध्वनिवेशान्[२] यवसेन्धनादेकवशेन परिसङ्ख्याय स्थानासनगमनकालं च यात्रां यायात् । तत्प्रतिकार[३] द्विगुणं भक्तोपकरणं वाहयेत् । अशक्तो वा सैन्धेष्व ........प्रयोजयेत्। अन्तरेषु वा निचिनुयात् ।।  पुरस्तान्नायकः मध्ये कळत्रं स्वामी च, पार्श्वयोरश्वा बाहू- 438 5 त्सारः, चक्रान्तेषु हस्तिनः प्रसारवृद्धिर्वा, सर्वतो वनाजीवः प्रसारः । स्वदेशाढन्वायतिर्वीवधो मित्रबलमासारः स्वभूमि- तो यायात् । अभूमिष्ठानां हि स्वभूमिष्ठा युद्धे प्रतिलोमा:[४]

  1. 1 वर्गाणामारक्षविषयसि
  2. 2.मध्वनि निवेशान्
  3. 3.तत्प्रति कार
  4. 4 युद्धे ऽप्रातिमा