हर्षाद्वातापिरगस्त्यामत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनमिति ।
एते चान्ये च बहवः शत्रुषड्वर्गमाश्रिताः । |
इति विनयाधिकारिके इन्द्रियजये
अरिषड्वर्गत्यागः षष्ठोऽध्यायः.
तस्मादरिषड्वर्गत्यागेनेन्द्रियजयं कुर्वीत । वृद्धसंयोगेन प्रज्ञां, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनं, कार्यानुशासनेन स्वधर्मस्थापनं, विनयं विद्योपदेशेन, लोकप्रियत्वमर्थसंयोगेन, हितेन वृत्तिम् ।
एवं वश्येन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत् . स्वप्नलौल्यमनृतमुद्धतवेषत्वमनर्थ[१]संयोगं च । अधर्मसंयुक्तमनर्थसंयुक्तं च व्यवहारम् ।
धर्मार्थाविरोधेन कामं सेवेत । न निस्सुखस्स्यात् । समं वा त्रिवर्गमन्योन्यानुबन्धम् । एको ह्यत्यासेवितो धर्मार्थ कामाना[मा][२]त्मानमितरौ च पीडयति । 'अर्थ एवं प्रधानः' इति कौटिल्यः---अर्थमूलौ हि धर्मकामाविति ।