पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७ प्रक]
363
स्कन्धावारनिवेशः

तासां दैवतब्राह्मणप्रणिपाततः सिद्धिः । 4369
असृष्टिरतिसृष्टिर्वा सृष्टिर्वा याऽऽसुरी भवेत् ।
तस्यामाथर्वणं कर्म सिद्धारम्भाश्च सिद्धयः ।।

इत्याभियास्यत्कर्मणि अर्थानर्थसंशययुक्तास्तासामुपायविकल्प- जास्सिद्धयश्च सप्तमोध्यायः। आदितोऽष्टाविंशशतः। एतावता कौटिलीयस्यार्थशास्त्रस्य अभियास्यत्कर्म नवममधिकरणं समाप्तम्



१० अधि, सांग्रामिकम्.


१४७प्रक, स्कन्धावारानिवेशः, वास्तुकप्रशस्तवास्तुनि नायकवर्धकिमौहूर्तिकाः स्कन्धावारं 4371 वृत्तं दीर्धं चतुरश्रं वा, भूमिवशेन वा चतुर्दारं षट्पथं नवसंस्थान मापयेयुः । खातवप्रसालद्वाराट्टालकसंपन्नं भये स्थाने[१] च मध्यमस्योत्तरे नवभागे राजवास्तुकं धनुश्शतायाममर्धविस्तार, पश्चिमार्घे त- स्यान्तःपुरमन्तर्वंशिकसैन्यं चान्ते निविशेत । पुरस्तादुपस्थानं, दक्षिणत' कोशशासनकार्यकरणानि, वामतो राजापवाह्यानां हस्त्यश्वरथानां स्थानं, अतो धनुश्शतान्तराश्चत्वारश्शकटमेधीम- ततीस्तम्भसालपरिक्षेपाः । प्रथमे पुरस्तान्मन्त्रिपुरोहितौ, दक्षि- णतः कोष्ठागारं महानसं च, वामतः कुप्यायुधागारं द्वितीये मूल[२] भृतानां स्थानं अश्वस्थानां [३], बाह्यतः लुब्धकश्वगणिनः सतू-


तृतीये हस्तिन श्रेण्य प्रशास्ता च ।

चतुर्थे विष्ठिनीयको मित्रामित्राटवौवल स्वररुषाधिष्ठितम् । वणिजो रूपानीवाश्चानुमहा- प्रथम् ।

  1. 1.भयस्थाने
  2. 2.मौल
  3. 8 सेनापतेश्च