पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५-१४६ प्रक.]
361
अर्थानर्थसंशययुक्ता , तासामुपायविकल्पजास्सिद्धयश्च


 इति देशावस्थापनम् ।  4343  एतेन यात्रामध्यान्तेष्वर्थानर्थसंशयानामुपसंप्राप्तिाख्याता।  निरन्तरयोगित्वाच्चार्थानर्थसंशयानां यात्रादावर्थः श्रेयानुपसं प्राप्तुं पार्ष्णिग्राहासारभतिघातक्षयव्ययप्रवासप्रसादेय[१] मूलरक्षणे. षु च भवति तथाऽनर्थसंशयो वा स्वभूमिषु ह्याविषह्यो[२] भवति।  एतेन यात्रामध्येऽनर्थसंशयाना[३]मुपसप्राप्तिर्व्याख्याता ।  यातृयात्रान्ते तु[४] कर्शनीयमुच्छेदनीयं वा कर्शयित्वोच्छिद्य वाऽर्थः श्रेयानुपसंप्राप्तुं नानर्थस्संशयो वा, पराबाधभयात् ।  सामवाायिकानामपुरोगस्य तु यात्रामध्यान्तगोऽनर्थस्संशयो वा श्रेयानुपसंप्राप्तुमनिबन्ध[५] गामित्वात् ।

अर्थो धर्मः काम इत्यर्थत्रिवर्गः ।
तस्य पूर्वः पूर्वश्श्रेयानुपसंप्राप्तुम् ।
अनर्थोऽधर्मश्शोक इत्यनर्तत्रिवर्गः ।
तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ।

अर्थोऽनर्थ इति, धर्मोऽधर्म इति, कामः शोक इति संशय- त्रिवर्गः।  तस्योत्तरपक्षसिद्धौ पूर्वपक्षश्रेयानुपसंप्रातुम् ।  इति कालावस्थापनम् । इत्यापदः। 4354


46
 
  1. 1.देयं
  2. 2.स्वभामिष्ठस्य विषयो
  3. 3.मध्ये ऽर्थानर्थसयाना
  4. 4.यात्रान्ते तु
  5. 5.मनुबन्ध