पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

360 अभियास्यत्कर्म [१ अधि ७ अध्या 488 5 ज्यायस्या, समन्ततोऽनर्थान् मूलेन प्रतिकुर्यात् । अशक्ये समुत्सृज्यावगच्छेत् । दृष्टा हि जीवतः पुनरावृतिः यथा सुया त्रोदयनाभ्याम् । इतो लाभ इतरतो राज्याभिमर्श इत्युभयतोऽर्थानर्थापद्भवति तस्यामनर्थसाधको योऽर्थ, तमादातु यायात् अन्यथा हि राज्याभिमर्शं वारयेत् । एतया समन्ततः अर्थानर्थापद्व्याख्याता । इतोऽनर्थ इतरतोऽर्थसंशय इत्यु भयतोऽनर्थानार्थसंशयः। तस्यां पूर्वमनर्थं साधयेत् । तत्सिद्धावर्थसशयम् । एतया समन्ततोऽनर्थार्थसंशयो ब्याख्यात । इतोर्थ इतरतोऽनर्थसंशय इत्युभयतोनर्थार्थसंशयो भवति। एतया समन्ततोऽर्थानर्थसंशया व्याख्याताः । तस्यां पूर्वांपूर्वां प्रकृतीनामनर्थसंशयान्मोक्षयितुं यतेत । श्रेयो हि मित्रमनर्थसंशये तिष्ठन्न दण्डः दण्डो वा न कोश इति ।। समग्रमोक्षणाभावे प्रकृतीनामवयवान्मोक्षयितुं यतेत । तत्र पुरुषप्रकृतीनां च बहुलमनुरक्त वा तीक्ष्णलुब्धवर्जं द्रव्यप्रकृतीनां सारं महोपकारं वा सन्धिनाऽऽसनेन द्वैधाभावेन वा लघूनि, विपर्ययैः गुरुणि। 4345 क्षयस्थानवृद्धीनां चोत्तरोत्तरं लिप्सेत । प्रातिलोम्येन वा क्षयादीनामायत्यां विशषं पश्येत् ।