पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४३ प्रक] बाह्याभ्यन्तराश्चापद 353 तत्रैकान्तयोगमुपजपितुः सिद्धिर्विशेषवती। दोषशुद्धौ हि दूष्या 425 5 न विद्यन्ते । दूष्यशुद्धौ हि ढोप पुनरन्यान् दूषयति । तस्माद्वाह्येषूपजपत्सु भेददण्डौ प्रयुञ्जीत । सत्रिणो मित्र- व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयमादातुकामो विगृ. हीता स्थानेन राज्ञा बुध्यध्वम्” इति । प्रनिजपितुर्वा ततो दूतदण्डाननुपविष्टास्तीक्ष्णाः शस्त्ररसादिभिरेषां छिद्रेषु प्रहरेयुः ॥ ततः सत्रिणः प्रतिजापतारमभिशंसेयुः ॥ अभ्यन्तरानभ्यन्तरेषूपजपत्सु यथार्हमुपायं प्रयुञ्जीत। तुष्ट- लिङ्गमतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥ शौचसामर्थ्यापदेशेन व्यसनाभ्युदयावेक्षणेन वा प्रतिपूज नामिति दानम् । मित्रव्यञ्जनो वा ब्रूयादेतान्-"चित्तज्ञानार्थ- मुपधास्यति वो राजा; तदस्याख्यातव्यम्" इति । परस्पराद्वा भेदयदेनान्-“असौ च वो राजन्येवमुपजपति भेदो दाण्ड- कार्मिकवच्च दण्डः ॥ एतासां चतसृणामापदामभ्यन्तरामेव पूर्व साधयेत् । “ अहि- भयादभ्यन्तरकोपो बाह्यकोपात् पापीयान्" इत्युक्तं पुरस्तात् ।। पूर्वं पूर्वं विजानीयाल्लध्वीमापदमापदाम् । 426 3 उत्थितां बलवद्भयो वा शुद्धिं लध्वीं विपर्यये ॥ इत्यभियास्यत्कर्मणि बाह्याभ्यन्तराश्च आपद पञ्चमोध्याय आदितः षड्विंशशत 1 गुवी. -15