पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

316 अभियास्यत्कर्म ९ि अधि.३ अध्या, ११०-१४१ प्रक. पश्चात्कोपचिन्ता, बाह्या- भ्यन्तरप्रकृतिकोपप्रतीकारश्च. 4189 "अल्प: पश्चात्कोपो महान् पुरस्ताल्लाभः" इति, अ. ल्पः पश्चात्कोपो गरीयान् । अल्पं पश्चात्कोपं प्रयातस्य दूष्यामित्राटविका हि सर्वतः समेधयन्ति । प्रकृतिकोपो वा लब्धमपि च महान्तं पुरस्ताल्लाभम् ।। __एवंभूते भृते भृत्यमित्रक्षयव्ययान् प्रयुञ्जीत' पुरस्ताल्लाभे सेनापतिं कुमार का दण्डचारिणं कुर्वीत ॥ बलवान्वा राजा पश्चात्कोपावग्रहसमर्थः पुरस्ताल्लाभमा- दातुं यायात् । आभ्यन्तरकोपशङ्कायां शङ्कितानादाय यायात् बाह्यकोपशङ्कायां वा पुत्रदारभेषामभ्यन्तरावग्रहं कृत्वा शून्यपालमनेकबलवर्गमनेकमुख्यं च स्थापयित्वायायात् न याया- द्वा। “अभ्यन्तरकोपो बाह्यकोपात् पापीयान्" इत्युक्तं पुरस्तात् ।। मन्त्रिपुरोहितसेनापतियुवराजानामन्यतरकोपोऽभ्यन्तरकोप सितमात्मदोषत्यागेन परशक्तयपराधवशेन वा साधयेत्। महाप राधेऽपि पुरोहिते संरोधनमपस्रावणं वा सिद्धिः; युवराजे संरोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ॥ ताभ्यां मन्त्रिसेनापती व्याख्यातौ । 4193 पुत्रं भ्रातरमन्यं वा कुल्यं राज्यग्राहिणमुत्साहेन साध- प्रयुकीत । तस्मात्सहसैकीय पुरस्तालाभस्यायोगशतकीयो बा पश्चात्कोप इति न यायात् । सूचीमखा हनी इति लोकप्रवादः । पश्चात्कोप सामदानभेदद्रण्डान्प्रबुजात, मव.