२. प्रक. वृद्धसंयोगः.
तस्माद्दण्डमूलास्तिस्रो विद्याः ।
विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः ।
कृतकस्स्वाभाविकश्च विनयः । क्रिया हि द्रव्यं विनयति नाद्रव्यम् । शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति नेतरम् ।
विद्यानां तु यथास्वमाचार्यप्रामाण्याद्विनयो नियमश्च ।
वृत्तचौलकर्मा लिपिं सङ्ख्यानं चोपयुञ्जीत ।
वृत्तोपनयनस्त्रयीमान्वाक्ष[१]कीं च शिष्टेभ्यः, वार्तामध्यक्षेभ्यः, दण्डनीतिं वक्तृप्रयोक्तृभ्यः ।
ब्रह्मचर्यं चाषोडशाद्वर्षात् । अतो गोदानं दारकर्म च ।
अस्य नित्यश्च विद्यावृद्धसंयोगो विनयवृद्ध्यर्थं, तन्मूलत्वाद्विनयस्य ।
पूर्वमहर्भाग हंस्त्यश्वरथप्रहरणविद्यासु विनयं गच्छेत् ।
पश्चिममितिहासश्रवणे । पुराणमितिवृत्तमाख्यायिकोदाहरणं धर्मशास्त्रमर्थशास्त्रं चेतीतिहासः ।
शेषमहोरात्रभागमपूर्वग्रहणं गृहीतपरिचयं च कुर्यात् ।
अगृहीतानामाभीक्ष्ण्यश्रवणं च ।
- ↑ क्षि.