पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
338
[८ अधि. ५ अध्या.
व्यसनाधिकास्किम्

4086

द्वैधीभावेन वा मित्र यात्वता वाऽन्यमन्यत । पृथग्वा सहयाने वा विश्वासेनातिसंहितम् । भयावमानलास्यैर्वा व्यसनान्न प्रमोक्षितम् ।। अवरुद्धं स्वभूमिभ्यः समीपाद्वा भयाद्गतम् । आच्छेदनाददानाद्वा दत्वा वाऽप्यवमानितम् ॥ अत्याहारितसमर्थ वा स्वयं परमुखेन वा । अतिभारे हि युक्तं वा भक्ता परमवस्थितम् ॥ उपेक्षितमशक्तचा वा प्रार्थयित्वा विरोधितम् । कृच्छ्रेण साध्यते मित्रं सिद्धं चाशु विरज्यति ॥ कृतप्रयासं मान्यं वा मोहान्मित्रममानितम् । मानित वा न सदृशं शक्तितो वा निवारितम् ।। मित्रोपघातत्रस्तं वा शङ्कितं वाडरिसंहितात् । दूष्यैर्वा भेदितं मित्रं साध्य सिद्ध च तिष्ठति ॥ तस्मान्नोत्पादयेदनान् दोषान् मित्रोपघातकान् । उत्पन्नान्या प्रशमयेत् गुणैर्दोषोपधातिभिः ॥

इति व्यसनाधिकारिके अष्टमाधिकरणे बलव्यसनवर्गः,

मित्रव्यसनवर्ग पञ्चमोऽध्याय आदित एकविंशतिशतोऽध्यायः

एतावता कौटिलीयस्यार्थशास्त्रस्य व्यसनाधिकारिक

अष्टममधिकरणं समाप्तम्.



1 नियुक्त. 2 भड्कृत्वाभक्त्या,