पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
326
[८ आध. ३ अध्या
व्यसनाधिकारिकम्

तत्र वा पर्यवस्थापयितामिति । चलितशास्त्रस्तु शास्त्रादन्य थाभिनिविष्टबुद्धिरन्यायेन राज्यमात्मानं चोपहन्तीति ।। 396 2  व्याधितो नवो वा राजेति .." ब्याधितो राजा राज्यो- पघातममात्य मूलं प्राणाबाधं वा राज्यमूलमवाप्नोति । नवस्तु राजा स्वधर्मानुग्रहपरिहारदानमानकर्मभिः प्रकृतिरञ्जनोपकारै श्वरतीत्याचार्याः ।।

  नेति कौटिल्यः--व्याधितो राजा यथाप्रवृत्तं राजप्रणिधि- मनुवर्तयति । नवस्तु राजा बलावर्जितं “ममेदं राज्यम्" इति यथेष्टमनवग्रहश्चरति । सामुत्थायकैरवगृहीतो वा रा । ज्योपघातं मर्षयति । प्रकृतिष्वगूढः सुखमुच्छेत्तुं भवति । व्याधिते विशेषः-पापरोग्यपरोगी च; नवेऽप्यभिजातोऽन भिजात इति ॥

  दुर्बलोऽभिजातो बलवाननभिजातो राजेति?---"दुर्बलस्य- भिजातस्योपजापं दौर्बल्यापेक्षाः प्रकृतयः कृच्छ्रेणोपगच्छन्ति । बलवतश्चानभिजातस्य वलापेक्षास्सुखेन" इत्याचार्याः ॥

  नेति कौटिल्यः--दुर्बलमभिजातं प्रकृतयस्स्वयमुपनमन्ति । जात्यमैश्वर्यप्रकृतिरनुवर्तत" इति। बलवतश्चानभिजातत्योपजापं विसंवादयन्ति...." अनुयोगे साद्गुण्यम्" इति ॥

3968 प्रयासवधात्स'स्यवधो मुष्टिवधात्पापीयान्निराजीवत्वादवृ- ष्टिरतिवृष्टित इति॥


1 मूल', 2,52. ध्वरूढ भवतीति वर्तेत. संबाधात्स.