पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३५१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८ प्रक.
325
राजराज्ययो व्यसनचिन्ता

शेषप्रकृतिनाशस्तु यत्रैकव्यसनाद्भवेत् । 3946
व्यसनं तद्गरीयस्स्यात् प्रधानस्येतरस्य वा ॥

इति व्यसनाधिकारिकेऽष्टमेऽधिकरणे प्रकृतिव्यसनवर्ग:

प्रथमोऽध्याय .

आदितस्सप्तदशशत


१२८ प्रक. राजराज्ययोर्व्यसनचिन्ता.


 राजा राज्यामिति प्रकृतिसंक्षेपः ॥

  राज्ञोऽभ्यन्तरो बाह्यो वा कोप इति । अहिभयादभ्य- न्तरः कोपो बाह्यकोपात्पापीयान् । अन्तरमात्यकोपश्चान्त:- कोपात् । तस्यात्कोशदण्डशक्तिमात्मसंस्थां कुर्वीत ॥

 द्वैराज्यवैराज्ययोः द्वैराज्यमन्योन्यपक्षद्वेषानुरागाभ्यां परस्प- रसङ्घर्षेण वा विनश्यति । वैराज्यं तु जीवतः' परस्या- च्छिद्य "नैतन्मम" इति मन्यमानः कर्शयत्यपवाहयति ; पण्यं वा करोति; विरक्तं वा परित्यज्य अपगच्छतीति ॥

 अन्धश्चलितशास्त्रो वा राजेति?--" अशास्त्रचक्षुरन्धो य- 3958 त्किञ्चनकारी दृढाभिनिवेशी परप्रणेयो वा राज्यमन्याय्येनो-2 पहन्ति ; चलितशास्त्रस्तु यत्र शास्त्राच्चलितमतिर्भवति, शक्या- नुनयो भवतीत्याचार्याः॥

 नेति कौटिल्य ---अन्धो राजा शक्यते सहायसम्पदा यत्र


1 वैराज्यं तु प्रकृतिचित्तग्रहणापोक्षि यथास्थितमन्यैर्भुज्यते इत्याचार्या. नेति कौटि- ल्यः--पितापुत्रयोर्भ्रात्रोर्वा द्वैराज्य तुल्ययोगक्षेममत्यावग्रह वर्तयतेति । वैराज्य तु जीवत ,

  • मन्यायेनो. ट.