पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४-१२६प्रक.]
"319
मध्यमोदासनिमण्डलचरितानि

 उदासीनं वा मध्यमो लिप्सेत-"उदासीनाद्भिद्यताम्" _3872
इति ॥
 मध्यमोदासीनयोर्यों मण्डलस्याभिप्रेतस्तमाश्रयेत । मध्यमच-
रितेनोदासीनचरितं व्याख्यातम् ॥
 उदासीनश्चेत् मध्यमं लिप्सेत, यतश्शत्रुमतिसंदध्यात् मित्र-
स्योपकार कुर्यादुदासीनं वा दण्डोपकारिणं लभेत, ततः
परिणमेत । एवमुपगृह्यात्मान'मरिप्रकृतिं कर्शयेत् मित्रप्रकृतिं
चोपगृह्णीयात्सत्यप्यमित्र भावे ।।
 तस्यानात्मवान्नित्यापकारी शत्रु शत्रुसहितः पार्ष्णिग्राहो
वा व्यसनो यातव्यो व्यसने वा नेतुरभि योक्तेत्यरिभाविनः ।
 एकार्थाभिप्रयातः पृथगर्थाभिप्रयातः संभूययात्रिकः संहि.
तप्रयाणिकः स्वार्थाभिप्रयात- सायुस्थायिकः कोशदण्डयोरन्य-
तरस्य क्रेता विक्रेता द्वैधीभाविक इति मित्रभाविनः ॥
 सामन्तो बलवतः प्रतिघातोन्तार्धाप्रतिवेशो वा बलवतः
पार्ष्णिग्राहो वा स्वयमुपनतः प्रतायोपनतो वा दण्डोपनत इति
भृत्यभाविनस्मामन्ताः ! तैर्भूम्येकान्तरा व्याख्याताः ।।

तेषां शत्रुविरोधे यन्मित्रमेकार्थतां व्रजेत् ।
शक्त्या तदनुगृह्णीयाद्विषहेत तया वरम् ॥
प्रसाध्य शत्रु यन्मित्रं वृद्धं गच्छेदवश्यताम् ।
सामन्तैकान्तराभ्यां तत्प्रकृतिभ्यां विरोधयेत् ।।