पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४-१२६ प्रका
317
मध्यमोदासीनमण्डलचारितानि

 चक्रचराणां वा शकटवाटैरपगच्छेत् । आसन्ने चानुपाते 384 4
सत्रं वा गृह्णीयात् । सत्राभावे हिरण्यं रसाविद्धं वा भ-
क्षजातमुभयतः पन्थानमुत्सृजेत् । ततोऽन्यतोऽपगच्छेत ।।
 गृहीतो वा सामादिभिरनुपातमतिसंदध्यात् । रसविद्धेन
वा पथ्यदानेन वारुणयोगाग्निदाहेषु वा शरीरमन्यदाधाय
शत्रुमभियुञ्जीत--"पुत्रो मे त्वया हतः" इति ।

उपात्तच्छन्नशस्त्रो वा रात्रौ विक्रम्य रक्षिषु ।
शीध्रपातरैपसरेत् गूढप्रणिहितैस्सह ।।

इति षाड्गुण्ये सप्तमेधिऽकरणे सन्धिकर्मसन्धिमोक्ष ।

सप्तदशोऽध्यायः

आदितः पञ्चदशशतः


१२४--१२६ प्रक, मध्यमोदासीन-

मण्डलचरितानि.


 मध्यमस्यात्मतृतयी पञ्चमी च प्रकृती प्रकृतयः। द्वि-
तीया च चतुर्थी षष्ठी च विकृतयः। तच्चेदुभयं मध्यमोऽ-
नुगृह्णीयात्, विजिगीषुर्मध्यमानुलोमस्स्यात् । न चेदनुगृह्णीयात्
प्रकृत्यनुलोपस्यात् ॥
 मध्यमश्चद्विजिगीषोः मित्रं मित्रभावि लिप्सेत, मित्रस्या- 3855
त्मनश्च मित्राण्यत्थाप्य मध्यमाच्च मित्राणि भेदयित्वा मित्रस्त्रा-
येत । मण्डलं वा प्रोत्साहयेत--अतिप्रवृद्धोऽयं मध्यम-