पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
314
. अधि. १७ अध्या.
षाड्गुण्यम्

 

3318 संहितास्मः" इति सत्यसन्धाः पूर्व राजानः सत्येन
संदधिरे । " तस्यातिक्रमे शपथेन अग्नयुदकसीताप्राकारलोष्टह-
स्तिरकन्धाश्वपृष्ठरथोपस्थशस्त्ररत्नबीजगन्धरससुवर्णहिरण्यान्या
लेभिरे। हन्युरेतानि त्यजेयुश्चेनं यश्शपथमतिक्रामेत् " इति ।

 

शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभा
व्यबन्धः प्रतिभूः । तस्मिन्यः परावग्रहसमर्थान्प्रतिभुवो गृह्णाति,
सोऽतिसंधत्ते । विपरीतोऽतिसंधीयते ।

 

बन्धुमुख्यप्रग्रहः प्रतिग्रह' ; तस्मिन्यो दूष्यापत्यं वा ददा-
ति सोतिसंधत्ते । विपरीतोऽतिसंधीयते । प्रतिग्रहग्रहणवि.
श्वस्तस्य हि परः छिद्रेषु निरपेक्षः प्रहरति ।

 

अपत्यसमाधौ तु कन्यापुत्रदाने ददत्तु कन्यामितिसंधत्ते ।
कन्या ह्यादाय परेषामेवानर्थाय क्लेशाय च विपरीतः पुत्रः ।

 

पुत्रयोरपि जायं शूरं प्राज्ञं कृतास्त्रमेकपुत्रं वा ददाति.
सोतिसंधत्ते । विपरीतोतिसंधीयते । जायादजात्यो हि
लुप्त दायादसतानत्वादाधातुं श्रेयान् । प्राज्ञादप्राज्ञो मन्त्र-
शक्तिलोपात् । शूरादशूर उत्साहशक्तिलोपात् । कृतास्वादकृ.
तास्त्रः प्रहर्तव्यसम्पल्लोपात् । एकपुत्रादनेकपुत्रो निरपेक्षत्वात्।

 

जात्यप्राज्ञयोरजात्यमप्राज्ञमैश्वर्यप्रकृतिरनुवर्तते । प्राज्ञमजात्यं
मन्त्राधिकारः । मन्त्राधिकारेऽपि वृद्धसंयोगाज्जात्यकः प्राज्ञ-
मतिसंधत्ते ।