पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९-२० प्रक.
309
बलवता विगृह्मोपर धहेतवः, दण्डोपनतवृत्त च

 

"पार्ष्णिग्राहासारं मध्यममुदासीनं वा प्रतिपादयिष्यामि । 376 4
सामन्ताटविकतत्कुलीनावरुद्धानामन्यतमेनास्य राज्यं हारयि-
ष्यामि पातयिष्यामि वा ! कृत्यपक्षोपग्रहेण वाऽस्य दुर्गे राष्ट्रे
स्कन्धावारे वा कोप समुत्थापयिष्यामि। शस्त्राग्निरसप्रणि-
धानरौपनिषदिकैर्वा यथेष्टमासन्नं हनिष्यामि। स्वयमधिष्ठितेन वा
योगप्रणिधानेन क्षयव्ययमेनमुपनेष्यामि । क्षयव्ययप्रवासोप
नप्ते वाऽस्य मित्रवर्गे सैन्ये वा क्रमेणोपजापं प्राप्स्यामि ।
वीवधासारपसारवधेन वाऽस्य स्कन्धावारावग्रहं करिष्यामि ।
दण्डोफ्नयेन वाऽस्य रन्ध्रमुत्थाप्य सर्वसन्दोहेन प्रहरिष्यामि ।
प्रतिहतोत्साहेन वा यथेष्टं सन्धिमवापश्यामि मयि प्रतिबन्धस्य
वा सर्वतः कोपाः समुत्थात्यन्ति । निरासारं वाऽस्य मूलामि--
त्राटवीदण्डैरुद्धातायिष्यामि । महतो वा देशस्य योगक्षेममिह-
स्थः पालयिष्यामि । स्वविक्षिप्तं मित्रविक्षिप्तं वा मे सैन्य-
मिहस्थस्यैकस्थमविषह्यं भविष्यति । निम्नखातरात्रियुद्धविशा-
रदं वा मे सैन्यं पथ्यावाधमुक्तमासन्ने कर्मणि करिष्यति । वि.
रुद्धदेशकालमिहागतो वा स्वयमेव क्षयव्ययाभ्यां न भविष्य
ति। महाक्षयव्ययाभिगम्योऽयं देशो दुर्गाटव्यपसारबाहुळ्यात्।
परेषां व्याधिप्रायस्सैन्यव्यायामानां अलब्धभौमश्च तमापतद्गतः
प्रवेक्ष्यति । प्रविष्टो वा न निर्गमिष्यति" इति ।।

 कारणाभाचे बलसमुच्छ्रये वा परस्य दुर्गमुन्मुच्यापगच्छेत् । 3772
 आग्निपतङ्गवदमित्रे वा प्रविशेत् ।