पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
308
[७ अधि १५ अध्या
फागुण्यम्

११९ १२० प्रक. बलवता विगृह्योपरोधहेतवः,

दण्डोपनतवृत्तं च, .


 दुर्बलो राजा बलवताऽभियुक्त. तद्विशिष्टवलमाश्रयेत, यमि
तरो मन्त्रशक्तया नातिमंदध्यात् । तुल्यमन्त्रशक्तीनां आ-
यत्तसम्पदो वृद्धसंयोगाद्वा विशेष ॥

 विशिष्टबलाभावे समबलैस्तुल्यबलसङ्ख्यैर्वा वलवतस्सम्भूय
तिष्टेत्, यावन्न मन्त्रप्रभावशक्तिभ्यामतिसंदध्यात् । तुल्यमन्त्र
प्रभावशक्तीनां विपुलारम्भतो विशेष ॥

 समबलाभावे हीनबलैक्शुचिभिरुत्साहिभिः प्रत्यनीकभूतैर्बल-
वतस्सम्भूय तिष्टेत्, यावन्न मन्त्रप्रभावोत्साह शक्तिभिरनिसंद-
ध्यात् । तुल्योत्साहशक्तीनां स्वयुद्धभूमिलाभाद्विशेषः । तुल्य-
भूमीनां स्वयुद्धकाललाभाद्विशेषः । तुल्यदेशकालानां युग्यश
स्त्रावरणतो विशेषः।

 सहायाभावे दुर्गमाश्रयेत, यत्रामित्रः प्रभूतसैन्योपि भक्त.
यवसेन्धनोदकोपरोधं न कुर्यात् । क्षय'व्ययाभ्यां युज्येत ।
तुल्यदुर्गाणां निचयापसारतो विशेषः । निचयापसारस-
म्पन्नं हि मनुष्यदुर्गमिच्छेदिति कौटिल्यः । तदभिः कारणैरा
श्रयेत।